पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[२ मिन- शौचावशिष्टयाऽप्यस्ति किञ्चित्कार्य क्वचिन्मृदा। निर्धनेन जनेनैव न तु किञ्चित्प्रयोजनम् ॥ १०८ ॥ अधनो दातुकामोऽपि सम्प्राप्तो धनिनां गृहम् । मन्यते याचकोऽयं', धिग्दारियं खलु देहिनाम् ॥ १०९ ।। अतो वित्तापहारंविधतोयदिमेमृत्युः स्यात्तथापि शोभनम्। स्ववित्तहरणं दृष्ट्वा यो हि रक्षत्यसून्नरः । पितरोऽपि न गृह्णन्ति तदत्तं सलिलाञ्जलिम् ।। ११० ।। -तथा च- गवार्थे ब्राह्मणार्थे च स्त्रीवित्तहरणे तथा । प्राणांस्त्यजति यो युद्धे तस्य लोकाः सनातनाः ।। १११ ।। एवं निश्चित्य रात्रौ तत्र गत्वा निद्रावशमुपागतस्य पेटायां यावन्मया छिद्रं कृतं तावत्प्रवुद्धो दुष्टतापसः। ततश्च जर्जरवंश- प्रहारेण शिरसि ताडितः कथञ्चिदायुषः सावशेषतया निर्गतोऽहं, न मृतश्च । उक्तञ्च- प्राप्तव्यमर्थ लभते मनुष्यो देवोऽपि तं लचयितुं न शक्तः । तस्मान्न शोचामि न विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् ॥११॥ काककूर्मों पृच्छतः-'कथमेतत् ?'। हिरण्यक आह- ४. प्राप्तव्यमर्थवणिक्षुत्रकथा । अस्ति कस्मिश्चिन्नगरे सागरदत्तो नाम वणिक् । तत्सूनुना दरिद्रादपीत्यर्थ. ॥ १०७॥ शौचावशिष्टया हस्तशोधनाद्यवशिष्टया अशुचि- भूतयापि। मृदा मृत्तिकया ॥ १०८ ॥ दातुमुपागतोऽपि दरिद्रो याचकोऽयमिति मन्यते ज्ञायते,अतो दारिद्य धिक्॥१०९॥ वित्तापहार-स्वधनानयनम् । असून-प्राणान् ॥११०॥ गवार्थे-गोरक्षणार्थे । ब्राह्मणार्थे ब्राह्मणरक्षणार्थे । स्त्रीवित्तहरणे स्वकीयस्त्रीधनादिहरणसमये तद्रक्षणार्थे यो युद्धे । प्राणास्त्यजेत् तस्य सनातना. नित्या ब्रह्मलोकादय ॥१११॥ आयुःशेष १ 'कातरो यस्तितिक्षते' पा०१२ इय कथा काशिकपरीक्षापाव्यतो बहिष्कृताऽश्लीलत्वात् ।