पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति ]

  • अमिनवराजलक्ष्मीविराजितम् *

२०५ तद्दण्डोपधानवर्तिकृतां वित्तपेटां शनैः शनैर्विदार्य तस्य निद्रा- वशङ्गतस्य स्वदुर्गे तद्वित्तमानयामि, येन भूयोऽपि मे वित्तप्रभा- वेणाधिपत्यं पूर्ववद्भविष्यति । उक्तञ्च-- 'व्यथयन्ति परं चेतो मनोरथशतैर्जनाः । नाऽनुष्ठानैर्धनहींनाः कुलजा विधवा इव ॥ १०२ ।। दौर्गत्यं देहिनां दुःखमपमानकरं परम् । येन स्वैरपि मन्यन्ते जीवन्तोऽपि मृता इव ॥ १०३ ।। दैन्यस्य पात्रतामेति पराभूतेः परं पदम् । विपदामाश्रयः शश्वदौर्गत्यकलुपीकृतः ॥ १०४ ॥ लज्जन्ते वान्धवास्ते न सम्बन्ध गृहयन्ति च । मित्राण्यमित्रतां यान्ति यस्य न स्युः कपर्दकाः ।। १०५ ।। मूर्त लाघवमेवैतदपायानामिद गृहम् । पर्यायो मरणस्याऽयं निर्धनत्वं शरीरिणाम् ॥१०६ ।। अजाधूलिरिव वस्तैर्मार्जनीरेणुवजनैः। दीपखद्योतच्छायेव त्यज्यते निर्धनो जनः ॥ १०७ ।। श्रयं-मळं। तद्गण्डोपधानवर्तिकृताम्-उपवर्हाभ्यन्तरे स्थापिताम् । ('गेंडुवे मे छिपाई हुई' )। वित्तपेटा-धनमञ्जूषा । विदार्य= खण्डयित्वा । धनहींना लोका मनोरथशतानि कुर्वन्ति, न च कार्यानुष्ठानं कत्तुं शक्नुवन्ति। यथा-कुलीना विववा रतिविषये नानामनोरथान् निष्फलानेव मनसि रचयन्ति, परन्तु न तासा ते मनोरथा सफलीभवन्ति, पत्युरभावादित्यर्थ ॥ १०२ ॥ दौर्गत्य=दारियं परमपमानकारकम् , येन स्वजनैरपि-दरिद्रा जीवन्तोपि मृतवदेव मन्यन्ते ॥१०३ ॥ दैन्यस्य दीनताया । पराभूते पराभवस्य । पद-स्थानम् । शश्वत्-नित्यमेव ॥ १०४ ॥ तेन-दरिद्रेण । गृहयन्ति अप- हुवते । कपर्दका काकिण्य । ('कौडी-' 'पैसा-टका' ) ॥ १०५ ॥ मूर्त मूर्तिमत् । लाघव-तुच्छत्वम् । अपायाना= नाशाना, हानेश्च ।मरणस्य पर्याय रूपान्तरम् ॥ १०६ ॥ अजाधूलि', मार्जनीरज , दीपखद्योतयोश्छाया च-पुण्य- विनाशकतया धर्मशास्त्रेषु कथिता , अतो लोकास्ततो यथा पलायन्ते, एवमेव . १ 'गोपयन्ति' इति पाठे-'गुप गोपने' इत्यस्थ रूपम् ।