पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्तिः]

  • अभिनवराजलक्ष्मीविराजितम् *

२०३ यथा काकयवाः प्रोक्ता यथाऽरण्यभवास्तिलाः । नाममात्रा न सिद्धथै स्युर्धनहीनास्तथा नराः ॥ ९३ ।। सन्तोऽपि न हि राजन्ते दरिद्रस्येतरे गुणा. । आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी ॥ ९४ ॥ न तथा वाध्यते लोके प्रकृत्या निर्धनो जनः । यथा द्रव्याणि संप्राप्य तैविहीनः सुखोचितः ।। ९५ ॥ शुष्कस्य कीटखातस्य वह्निदग्धस्य सर्वतः । तरोरप्यूपरस्थस्य वरं जन्म, न चाऽर्थिनः ॥ ९६ ।। शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता । उपकर्तुमपि प्राप्तं निःस्वं सन्त्यज्य गच्छति ।। ९७ ।। उन्नम्योन्नम्य तत्रैव निर्धनानां मनोरथाः। हृदयेष्वेव लीयन्ते विधवास्त्रीस्तनाविव ।। ९८॥ - धिगिति सम्बन्ध । काकयव =निष्फलयवजातिभेद । अरण्यभवास्तिला - जतिला । वन्ध्यतिला । उभयत्र तिलयवनामसत्त्वेपि यथा न ते तिलयव- कार्यकरणसमर्थास्तथा निर्धन पुमानिति भावः । सिधै कार्यसिद्ध्यपयोगिन । सिद्धौ हि'-इति पाठे तु-सिद्धौ कार्यसिद्धौ, न=न समर्थाः ॥ ९३ ॥ सन्त -वर्तमाना । राजन्ते प्रकाशन्ते। इतरे दारिद्रयातिरिक्ता । श्रिया' तु गुणा प्रकाशन्ते इति लक्ष्म्या. सूर्यवत्प्रकाशकतेति भाव ॥ ९४ ॥ वाध्यते टु खितो भवति । प्रकृत्या स्वभावेन । द्रव्याणि संप्राप्य-पूर्व वनवान् भूत्वा, पश्चान्निर्धनस्तु वलवहु खमनुभवति ॥९५॥ फीटभुक्तस्य कीटनाशितस्य । 'कीटखातस्येति पाठे-कीटैर्विदारितस्येत्यर्थ । ऊपरस्थस्य-अयोग्यभूमिस्थस्य । ( ऊसर में उत्पन्न )। वरम् ईपत् श्रेष्ठम् । अर्थिन =याचकस्य ॥ ९६ ॥ निष्प्रतापा-निष्प्रभावा । निःस्वं दरिद्रम् । सन्त्यज्य दूरत परित्यज्य । लोकोऽपयातीत्यर्थ ॥ ९७ ॥ निर्धनाना मनसि मनोरथा उत्थाय उत्थाय विलीयन्ते,धनाऽभावात् ॥९८॥ १'न विराजन्ते' पा०।२'सुखे स्थित.' । पा०॥ ३ 'कुन्जस्य कोटखातस्य दावनिष्कुषितत्वचा, । पाठा० ।