पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[ २ मित्र- येन द्वावपि जनेचरणाऽमलिनायां भूमौ तत्पदानुसारेण गच्छाव. मयापि तद्वचनमाकर्ण्य चिन्तितम्--'अहो ! विनष्टोऽस्मि, यतोऽस्य सौभिप्रायवचांसि श्रूयन्ते । नूनमनेन यथा निधानं ज्ञातं तथा दुर्गमप्ययमस्माकं ज्ञास्यति । एतदभिप्रायादेवास्य ज्ञायते । उक्तञ्च-- सकृदपि दृष्ट्वा पुरुपं विबुधा जानन्ति सारतां तस्य । हस्ततुलयाऽपि निपुणाः पलप्रमाणं विजानन्ति ॥८६॥ वान्छेव सूचयति-पूर्वतरं, भविष्यत् पुंसां यदन्यतनुजं त्वशुभं शुभंवा। विज्ञायते शिशुरजातकलापचिह्नः प्रत्युद्गतैरपसरन्सरसः 'कलापी'।।८।। ततोऽहं भयत्रस्तमनाः सपरिवारो दुर्गमार्ग परित्यज्यान्य मार्गेण गन्तुंप्रवृत्तः। तत.सपरिजनो यावदनतो.गच्छामि तावत्सं. मुखीनो वृहत्कायो मार्जारः समायाति। स च मूषकवृन्दमवलोक्य तन्मध्ये सहसोत्पपात। अथ ते मूषका मां कुमार्गगामिनमवलोक्य मार्ग । अथेति-प्रश्ने । खनित्रकम् खननसाधनम् । वाढं-नून-('हॉ अवश्य हैं') सुहस्तिका खननोपकरणभेद ('कुदाली' 'फावड़ा') 'स्वहस्तिके ति पाठान्तरम् । अस्तीति शेष.। जनचरणाऽमलिनाया मनुष्यसञ्चाराऽमलिनितायाम् । तत्पदा- नुसारेण मूषकपदानुसारेण ('चूहों के खोज पहिचान कर') । साभिप्राय- वचासि दृढमनोरथसूचकानि वचनानि । नूनम् अवश्यम् । 'ज्ञास्यती' त्यस्य 'इतीति शेपः । एतदभिप्रायात्-बृहत्स्फिगाशयादेव । हस्ततुलया हस्तरूपया तुलया। पलप्रमाण-पलादिप्रमाणम् । (अन्दाज से ही तौल जान लेते हैं)॥८६॥ भविष्यत् भावि । पूर्वतरं च शुभाशुभम्-पुंसा वाञ्छयैव-इच्छादिना शीला- चरणादिनैव च ज्ञायते। यथा-मयूरशिशु -कलापै -मयूरपिच्छै रहितोपि-उत्प्लुत्य सरसं गच्छन् विशिष्टेन गमनेनैव-'मयूरोऽयमिति लोकैर्ज्ञायते। भाविकलापस्य गतिविशेषेणानुमानमिति भावः। 'प्रत्युत्पदै परिसरन् सरस 'इति पाठान्तरम्॥८७॥ संमुखीन =संमुखायात.। उत्पपात आक्रमणं चक्रे । कुमार्गगामिन =दुर्गमार्गा- १. 'चरणमलितायां भूमौ' पा०। मलिता मूषकपादमर्दितेत्यर्थ । २ 'साभिप्रायाण्यस्य वचांसि' । पाठान्तरम् ।