पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[२मित्र- NW तथाच- 'यस्मिन्देशे च काले च वयसा यादृशेन च । कृतं शुभाऽशुभं कर्म तत्तथा तेन भुज्यते' ।। ८३ ॥ तदहं तथा भक्षयामि यथा बहून्यहानि मे प्राणयात्रा भवति। तत्तावदेनं स्नायुपाशं धनुष्कोटिगतं भक्षयामि । उक्तञ्च- 'शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् । रसायनमिव प्रा हेलया न कदाचन ॥ ८४ ॥ -इत्येवं मनसा निश्चित्य चापचटितां कोटिं मुखमध्ये प्रक्षिप्य स्नायुं भक्षितुं प्रवृत्तः। ततश्च त्रुटिते पाशे तालुदेश विदार्य चापकोटिर्मस्तकमध्येन शिखावन्निष्क्रान्ता । सोऽपि तद्वेदनया तत्क्षणान्मृतः । अतोऽहं ब्रवीमि- 'अतितृष्णा न कर्तव्या--' इति । स पुनरप्याह-'ब्राह्मणि ! न श्रुतं भवत्या ?-- 'आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ।। ८५ ।। (इति') अथैवं सा तेन प्रबोधिता ब्राह्मण्याह-यद्येवं तदस्ति मे गृहे स्तोकस्तिलराशिः। ततस्तिलाँल्लुञ्चित्वा तिलचूर्णेन ब्राह्मणं भोजयिष्यामि-' इति । ततस्तद्वचनं श्रुत्वा ब्राह्मणो ग्रामङ्गतः । सापि तास्तिलानुष्णोदकेन संमर्थ लुञ्चित्वा सूर्यातपे दत्त- वती। अत्रान्तरे तस्या गृहकर्मव्यग्रायास्तेषां तिलानां मध्ये न्तितम् अतर्कितम् । वयसा अवस्थया। 'वपुति केचित्पठन्ति ॥ ८३ ।। प्राणयात्रा-जीवननिर्वाहः, भोजनम् । स्नायुपाशंम्नायुनिर्मितां धनुपो मौवींम् । ('धनुष की डोरी') कोटि. कोण. । शिखावत्-चूडावत् । (चोटी की तरह )। वित्तं धनम् । हेलया-सहसा, एकपद एव ।। ८४ ।। चापचटितां कोटिम कोदण्डसंलग्नाम् । अधिज्यस्य धनुष. कोटि प्रान्तभागं (चटित-प्रत्यया चढी हुई )। सः ब्राह्मणः । 'कि न श्रुतमित्यस्य अग्रिमेण शोकेन सम्वन्धः । निधन भरणम् । सृज्यन्ते-निमीयन्ते ॥ ८५ ॥ स्तोकः-स्वल्प. । लुधित्वा-