पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६.

  • पञ्चतन्त्रम् *

[२ मित्र- तथा च- अकृतत्यागमहिना मिथ्या कि 'राजराज'शब्देन ? गोप्तारं न निधीनां कथयन्ति महेश्वरं विबुधाः ॥७६॥ अपि च- सदा दानपरिक्षीणः शस्त एव करीश्वरः । अदानः पीनगात्रोऽपि निन्द्य एव हि गर्दभः ।। ७७ ।। सुशीलोऽपि सुवृत्तोऽपि यात्यदानादधो घटः । पुनः कुब्जापि काणापि दानादुपरि कर्करी ॥ ७८ ॥ यच्छञ्जलमपि जलदो वल्लभतामेति सकललोकस्य । नित्यं प्रसारितकरो मित्रोऽपि न वीक्षितुं शक्यः ।। ७९ ॥ एवं ज्ञात्वा दारिद्याभिभूतैरपि स्वल्पात्स्वल्पतरं काले पारे च देयम् । उक्तञ्च-- सत्पात्रं महती श्रद्धा देशः कालो यथोचितम् । यद्दीयते विवेक स्तदानन्त्याय कल्पते ॥ ८॥ तथाच- अतितृष्णा न कर्त्तव्या तृष्णां नैव परित्यजेत् । अतितृष्णाऽभिभूतस्य शिखा भवति मस्तके ।। ८१॥ दानशक्तिविकलं निधीना गोप्तारं-कुवेरं सर्वनिधिपतिमपि राजराजपदवाच्य. मपि च लोका महेश्वरं न कथयन्ति । किन्तु गिरिशं-शिवं, त्यागशीलं-महेश्वर महादेवं कथयन्ति । 'राजराजो धनाधिप' 'शिव शूली महेश्वर' इत्यमरः।।७६॥ दानं मद , त्यागश्च। शस्त =शोभन । करीश्वर =हस्तियूथपति । पीनगात्रः- पीवरतनु. ॥ ७७ ॥ प्रपादौ-घट:-जलाद्यदानात्-अधो याति-नीचैरेव तिष्ठति । कर्करी गलन्तिका तु ('करी' 'तूतिया' )। पान्थेभ्यो जलादिदाने साधनीभूत अत एव उपरि घटमुखोपरि तिष्ठति । प्रपादौ हि घटोपरि शरावं निधाय तदुपरि कर्करी स्थाप्यते ॥ ७८॥ प्रसारितकरः= भिक्षार्थ प्रसारितपाणिः, विस्तारित मयूखश्च । मित्रः सूर्यः, मित्र-सुहृत् , अपिशब्दान् ॥ ७९ ॥