पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति ]

  • अभिनवराजलक्ष्मीविराजितम् *

तत्रब्राह्मण आह-'ब्राह्मणिप्रभाते दक्षिणायनसङ्क्रान्तिरनन्त- दानफलदा भविष्यति। तदहं प्रतिग्रहार्थं ग्रामान्तरं यास्यामि। त्वया ब्राह्मणस्यैकस्य भगवतः सूर्यस्योद्देशेन किञ्चिद्भोजनं दातव्यम्। अथ तच्छ्रुत्वा ब्राह्मणी परुषतरवचनैस्तं भर्त्सयमाना प्राह- 'कुतस्ते दारियोपहतस्य भोजनप्राप्तिः ? । ततिक न लजसे एवं ब्रुवाणः ? । अपि च-'ने मया तव हस्तलग्नया क्वचिदपि लब्धं सुखम् , नमिष्टान्नस्यारवादनम्, न च हस्तपादकण्ठादिभूषणम् ।' तच्छ्रुत्वा भयत्रस्तोऽपि विप्रो मन्द मन्दं प्राह-ब्राह्मणि ! नैतद्युज्यते वक्तुम् । उक्तञ्च- प्रासादपि तदर्ध च कस्मान्नो दीयतेऽर्थिपु । इच्छानुरूपो विभवः कदा कस्य भविष्यति ? ॥ ७३ ।। 'ईश्वरा सूरि दानेन यल्लभन्ते फलं किल । दरिद्रस्तच्च काकिण्या प्राप्नुया'दिति नः श्रुतम् ।।७४|| दाता लघुरपि सेव्यो अवति न कृपणो महानपि समृद्धथा। कूपोऽन्तःस्वादुजल. प्रीत्यै लोकस्य, न समुद्रः ॥७५।। तद्वचनात् ब्राह्मणवचनात् । तेन ब्राह्मणेन । दक्षिणायनसङ्क्रान्ति =कर्कसङ्क्रान्तिः। सूर्यस्योद्देशेन-सूर्यमुद्दिश्य, श्रीसूर्यप्रीतये । दारियोपहतस्य-दारियविकलस्य । भोजनप्राप्तिरपि नास्ति, फुतो ब्राह्मण- भोजनस्यावसर इत्यर्थ । तव हस्तलग्नया-तव पाणिगृहीत्या भार्यया । आस्वादन-लब्ध मिति शेष । एतत्-इत्थम् । अर्थिपु-याचकेभ्य । विभवः- धनसम्पत्ति-न भविष्यतीत्यर्थ ॥ ७३ ॥ ईश्वरा:-राजानो धनिनश्च । भूरि दानेन=बहु दानेन। काकिण्या=कपर्दिकयाऽपि ('कौड़ी' )। श्रुतं वेदधर्म- शास्त्रादिनिर्णयोऽस्माभि श्रुत ॥ ७४ ॥ दाता लघुरपि सेव्यते कूपवत् । कृपणो महाधनोऽपि समुद्रवत्-न लोकसन्तोषाय भवतीत्याशय ॥ ७५ ॥ 'न मया तव हस्तायं प्राप्य लब्धं क्वचित्सुखम् । नास्वादितञ्च मिष्टान्नं का कथा भूषणादिपु ?' २ 'पासादर्धमपि ग्रासमर्थिभ्य किं न दीयते' । ३ 'श्रुति ' पा० ।