पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र-- व्राजकोऽपि यथाशक्ति रक्षति,-परं यदैव निद्रान्तरितो भवति- तदाहं तत्रारुह्यात्मकृत्यं करोमि। अथ कदाचित्तेन मम त्रासार्थ महान्यत्नः कृतः, जर्जरवंशो- ऽपि समानीतः, तेन सुप्तोऽपि मम भयाद्भिक्षापात्रं ताडयति। अहमप्यभक्षितेऽप्यन्ने प्रहारभयादपसर्वामि । एवं तेन सह सकलां रात्रि विग्रहपरस्य मे कालो व्रजति । अथाऽन्यस्मिन्नहनि तस्य मठे बृहत्स्फिङ्नामा परिव्राजक- स्तस्य सुहृत्तीर्थयात्राप्रसङ्गन प्राधुणिकः समायातः । तं दृष्ट्वा प्रत्युत्थानविधिना संभाव्य प्रतिपत्तिपूर्वकमभ्यागत. क्रियया नियोजितवान् । ततश्च रात्रावकत्र कुशस्त्रस्तरेद्वावपि प्रसुप्तौ धर्मकथां कथयितुमारब्धौ । अथ बृहत्स्फिक्कथागोष्टीपु स ताम्रचूडो मूषकत्रासार्थ व्याक्षिप्तमना जर्जरवंशेन भिक्षापात्रंताडयंस्तस्य शून्यं प्रतिवचनं प्रयच्छति, तन्मयो न किञ्चिदादुहरति । अथासावभ्यागतः परं कोपमुपागतस्तमुवाच-भोस्ताम्र- चूड ! परिज्ञातस्त्वं सम्यङ्न सुहृत् , तेन मया सह साह्लाद न जल्पसि । तद्रात्रावपि त्वदीयं मठं त्यक्त्वाऽन्यत्र मठे यास्यामि । 'एह्यागच्छ, समाश्रयासनमिदं, कस्माचिराद् दृश्यसे ? निद्रान्तरित =निद्रापरिवृत। निद्रान्वित' इति पाठान्तरम्। आत्मकृत्यं भिक्षा- भक्षणम् । तेन जर्जरितवंशेन (टूटे वाससे)। विग्रहपरस्य कलहपरस्य । वृहत्यौ स्फिचौ यस्यासौ बृहत्स्फिक् । 'स्त्रियां स्फिचौ कटिपोथा वित्यमरः । ('फोंच' दूंगा')। प्राघुणिक. अतिथि ('पाहुना')। सम्भाव्य-सत्कृत्य। प्रतिपत्तिपूर्वकम्= सादरम् । अभ्यागतक्रियया अतिथियोग्यभोजनादिकर्मणा । नियोजित -सन्त- पिंत. । कुशस्रस्तरे-कुगास्तरणे । 'संस्तरे' इत्यपि पाठ । वृहत्स्फिचा सह या. कथागोष्टय -वार्ताप्रसझा-तासु-वृहस्फिकथागोष्टीपु । व्याक्षिप्तमना =व्याकुल- चित्त । शून्य केवलं-वाड्मात्रेण प्रतिवचनम्-उत्तरम् । (हुंकारा) । प्रयच्छति ददाति । तन्मय =मूपकाक्षिप्तचित्त । उदाहरतिब्रूते । , 'समाविशासनमिद' 'समाश्वसा'। -