पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

१८७- पुत्रादपि प्रियतरं खलु तेन दानं मन्ये पशोरपि विवेकविवर्जितस्य । दत्ते खले नु निखिलं खलु येन दुग्धं नित्यं ददाति महिपी ससुताऽपि पश्य ॥ ५५ ॥ कि वहुना- प्रीति निरन्तरां कृत्वा दुर्भेद्यां नखमांसवत् । मूपको वायसश्चैव गतावेकान्तमित्रताम् ।। ५६ ।। एवं स सूपकस्तदुपकाररञ्जितस्तथा विश्वस्तो यथा तस्य- पक्षमध्ये प्रविष्टस्तेन सह सर्वदैव गोष्ठी करोति । अथान्यस्मिन्नहनि वायसोऽश्रुपूर्णनयनः समभ्येत्य सगद्गदं तमुवाच-'भद्र ! हिरण्यक | विरक्तिः साता मे साम्प्रतं देशस्यास्योपरि, तदन्यत्र यास्यामि ।' हिरण्यक आह-'भद्र । किं विरक्तः कारणम् ?' । स आह- 'भद्र ! श्रूयताम् ,-अत्र देशे महत्याऽनावृष्टया दुर्भिक्ष सञ्जातम् । दुर्भिक्षत्वाजनो बुभुक्षापीडितः कोऽपि वलिमात्रमपि न प्रय च्छति । अपरं-गृहे गृहे बुभुक्षितजनैर्विहङ्गानां वन्धनाय पाशा:- प्रगुणीकृताः सन्ति । अहमप्यायुःशेषतया पाशे न पतितोऽस्मि । क्षीरं दुरधम् ॥ ५३॥ प्रत्यय =विश्वास । द्वेषी-शत्रु ५४ ॥ पशोरपि दानं प्रियतर, यतो सवत्साऽपि महिषी ( 'भैस' )-खले तिलकल्के ('खली') दत्तेऽशेष दुग्धं ददाति, वत्सार्थमपि न गेपयतीत्यर्थ ॥ ५५॥ नखमांसवत्= नखाडलीसम्बन्धवत् । (जैसे 'अङ्गुलियो से नख दूर नही होते हैं')। एकान्त- मित्रता दृढमैत्रीम् । 'अकृत्रिममित्रता'मिति पाठान्तरे-स्वाभाविकी मैत्रीम्। ॥ ५६ ॥ उपकाररक्षित -उपकारावर्जितस्वान्त । पक्षमध्ये छदमध्ये ('पाखों. मे )। गोष्टी-कथा ( 'गप-सप' ) साम्प्रतम् इदानीम् । अनावृष्ट्या-अवर्पणेन । दुर्भिक्षम् दुष्कालम् । ( सूखा ‘अकाल' )। वलिमात्रमपि काकवलिमपि । विह- गाना=पक्षिणाम् । पाठान्तरे-उद्धारित: उन्मुक्त । इति अस्मात्कारणात् । , 'पाशेन बद्ध उद्घारितोऽस्मि' इति मुद्रित पाठः ।