पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[२ मित्र- भीतभीतः पुरा शत्रुर्मन्दं मन्दं विसर्पति भूमौ प्रहेलया पश्चाजारहस्तोऽङ्गनाविव ।। ५० ।। तच्छ्रुत्वा वायस आह-'भद्र ! एवं सवतु ।' ततः प्रकृति तो द्वावपि सुभाषितगोष्ठीसुखमनुभवन्तौ तिष्ठतः । परस्परं कृतो- एकारौ कालं नयत । लघुपतनकोऽपि मांसशकलानि सेध्यानि बलिशेपाण्यन्यानि वात्सल्याहृतानि पक्वान्नविशेषाणि हिरण्यका- र्थमानर्यात । हिरण्यकोऽपि तण्डुलानन्यांश्च भक्ष्यविशेषाँलघुपतनकार्थ रात्रावाहृत्य तत्कालायातस्यार्पयति । अथवा युज्यते द्वयोरप्ये- तत् । उक्तञ्च- ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुड्क्ते भोजयते चैव पड्विधं प्रीतिलक्षणम् ॥ ५१ ।। नोपकारं विना प्रीतिः कथञ्चित्कस्य चिद्भवेत् । उपयाचितदानेन यतो देवा अभीष्टदाः ।। ५२ ।। तावत्प्रीतिर्भवेल्लोके यावदानं प्रदीयते । वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ।। ५३ ।। पश्य दानस्य माहात्म्यं सद्यः प्रत्ययकारणम् । यत्प्रभावादपि द्वेपी मित्रतां याति तत्क्षणात् ।। ५४ ।। भूमौ मन्दं मन्द-शनै शनै , शत्रु प्रसर्पति-चेष्टते, पश्चात् ,-प्रहेलया त्वरया, अवज्ञया,-सत्वरमिति यावत् । यथा जारस्य हस्त -पराङ्गनावपुपि पूर्व जनै- शनैः, पश्चाजाते विश्रम्भ सरभसं प्रवर्तते तथेत्यर्थ ॥ ५० ॥ एवं भवतु नाह तव दुर्गे चरणपातं करिष्यामीत्येव मे प्रतिज्ञेत्यर्थ. । सुभाषितगोष्ठीसुखं-परस्परमधुरालापमुखम् । मासशकलानि मासखण्डानि । मेध्यानि पवित्राणि, वलिशेषाणि काकवल्यादिशेषाणि । वात्सल्याहृतानि स्नेहा- नीतानि। पक्वान्नविशेपाणि-खण्डखाद्यानि ('लिठाई' 'लटू पेडा' )। आहृत्य= आनीय । तत्कालायातस्य-रात्रावागतस्य । (रात्रौ रात्रिमुखे-प्रदोपे )। गुह्य= रहस्यम् , आख्याति ब्रूते । पृच्छति-रहस्य मिति शेप ॥५१॥ उपयाचितम् उपहार । ('मनौती' 'भोग' 'प्रसाद' ) ॥ ५२ ॥ वत्स =तक । 'वछडा'।