पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्तिः]

  • अभिनवराजलक्ष्मीविराजितम् *

१८५ तथाच- सुकृत्यं विष्णुगुप्तस्य मित्राऽऽप्तिर्भार्गवस्य च । बृहस्पतेरविश्वासो नीतिसन्धिस्त्रिधा स्थितः ।। ४७ ।। महताप्यर्थसारेण यो विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तदन्तं तस्य जीवितम् ।। ४८ ।। तच्छुत्वा लघुपतनकोऽपि निरुत्तरश्चिन्तयामास-'अहो! वुद्धिप्रागल्भ्यमस्य नीतिविषये। अथवाऽत एवास्योपरि मे मैत्रीपक्षपातः। आह च-'भो हिरण्यक!- 'संख्यं साप्तपदीनं स्या'दित्याहुर्विबुधा जनाः । तस्मात्त्वं मित्रतां प्राप्तो वचनं मम तच्छृणु ।। ४९ ।। -'दुर्गस्थेनापि त्वया मया सह 'नित्यमेवालापो गुणदोष. सुभाषितगोष्ठीकथाः सर्वदा कर्तव्याः। यद्यवं न विश्वसिषि।' तच्छ्रुत्वा हिरण्यकोऽपि व्यचिन्तयत्-'विदग्धवचनोऽयं दृश्यते लघुपतनकः, सत्यवाक्यश्च, तद्युक्तमनेन मैत्रीकरणम्' । आह चै-भोः-भवत्वेवं, त्वया परं कदाचिन्मम दुर्गे चरण- पातोऽपि न कार्यः । उक्तञ्च- निकृन्तति-विनाशयति ॥ मदोत्कट =अतिबलशालिभि ॥४६॥ सुकृत्य% यथावदुपायकरणं-विष्णुगुप्तस्य चाणक्यस्य-नीतिः । भार्गवस्य-शुक्राचार्यस्य, नीतिरिति सम्बन्ध । अविश्वासो-बृहस्पतेनीति । सन्धि -शृङ्खला । मार्ग । त्रिधा स्थित त्रिप्रकार ॥ ४७ ॥ अर्थसारेण अतिधनवलसम्पन्नोऽपि । इत्थम्भूतलक्षणे तृतीया । तदन्तं तावत्पर्यन्तम् । ततो वध्यते इत्यर्थ ॥ ४८ ॥ सता सज्जनाना । सख्यं-मैत्री। साप्तपदीन सप्तभिरपि पदै -सह गमनैनिप्पद्यते। त्वया तु मम एतावान् वार्ता- लापो जात, अतस्त्वमनिच्छन्नपि मे सुहृज्जात एव । त्वं हिरण्यक । तत्- तस्मात् ॥ ४९ ॥ वचनमेवाह वायस -दुर्गेति दुर्गस्थेन स्वबिलस्थेन । गुण- दोपविचारपरा या सुभापितगोष्टी तस्या कथा =आलोपा । विदग्धवचन -चतुर । 'सतां साप्तपद मैत्रमिति । 'बलात्त्व मित्रता' मिति च पाठान्तरम् । २ इतः पूर्व-"आह च-भोः । भवत्वेव, त्वया"-इत्यर्थक पाठः खण्डित श्वाभाति ।