पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

>

  • पञ्चतन्त्रम् *

[२ मित्र- कृत्रिमं नाशमभ्येति वैरं द्राक् कृत्रिसैगुणैः । प्राणदानं विना वैरं सहज याति नक्षयम् ॥ ३३ ॥ वायस आह-भोः । द्विविधस्य वैरस्य लक्षणं श्रोतुमिच्छा- मि, तत्कथ्यताम् ।' हिरण्यक आह-'भोः ! कारणेन निर्वृत्तं कृति मम् । तत्तदोपकारकरणाद्गच्छति । स्वाभाविकं पुनः कथमपि न गच्छति। तद्यथा-'नकुल-लोणाम् ,शपभुङ्नखायुधानाम्,जल- वन्योः,देव दैत्यानाम्, सारमेय मार्जाराणाम् ईश्वर-दरिद्राणाम्, सपत्नीनाम् सिह गजानाम, लुब्धक हरिणानाम् , श्रोत्रिय-भ्रष्ट क्रियाणाम् , काकोलूकानाम् , सूर्स पण्डितानाम् , पतिव्रता- कुलटानाम्, सज्जन दुर्जनानाञ्च नित्यं वैरं भवति। न कस्य चित्केनापि कोऽपि व्यापादित , तथापि प्राणान्ताय यतन्ते ।' वायस आह भोः ! अकारणमेतत् । श्रूयतां से वचनम्- कारणान्मित्रतां याति कारणादेति शत्रुताम् । तस्मान्मित्रत्वमेवाऽत्र योज्यं वैरं न धीमता ॥ ३४ ॥ तस्मात्कुरु मया सह समागमं मित्रधर्मार्थम् । च ॥ ३२॥ सहज-स्वाभाविकम् । कृत्रिमै.- कल्पिते । गुणैः सन्धिविग्रहा- दिगुणैः, आर्जवक्षान्त्यादिभिश्च । नाशमायातीत्यपि पाठ । प्राणदानं विना = शत्रुवधं विना । क्षयं-नाशम् ॥ ३३ ॥ निर्वृत्तम् उत्पन्नम् । तत् कृत्रिमं । तदोपकारकरणात् यथायोग्योपकारकरणात् । यथा-पटादिवस्तुनाशजं वैरं कृत्रिमं- तादृशद्विगुणसुन्दरतरपटदानादिना निवर्तयितु शक्यते । शष्पभुज =गवादय । नखायुधा =व्याघ्रादय । सारमेय =कुकुर । ईश्वरा =धनिन । लुब्धक =व्याध । , श्रोत्रिय -वेदविहितकर्मकुशल । भ्रष्टक्रिया =अनाचारा । न कस्यचिदिति । एषा काकोलूकादीनामकृतपरस्परापकाराणामपि परस्पर महानयं विरोध सहज एवेति भाव । व्यापादित -मारित.। 'प्राणान्सन्ताप- यन्तीति पाठे-सन्तापयन्ति परस्परं पीडयन्ति । समागमं दर्शनादिकम् । मित्रधर्मार्थ-मैत्रीकरणार्थम् । उपकारार्थ च पाठान्तरे-इष्ट-प्रियमपि । न च कश्चित् केनापि व्यापादितः, तथापि प्राणान्सन्तापयन्ति । इति पाc ,