पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्तिः]

  • अभिनवराजलक्ष्मीविराजितम् *

जनम्'-इति । स आह-भोः ! चित्रग्रीवस्य मया तव सकाशा- पाशमोक्षणं दृष्टम्, तेन मम महती प्रीतिः सञ्जाता। तत्कदा- चिन्ममापि बन्धने जाते तव पार्थ्यान्मुक्तिर्भविष्यति । तत्क्रियतां मया सह मैत्री। हिरण्यक आह-'अहो ! त्वं भोक्ता, अहं ते भोज्यभूतः, तत्कथ त्वया सह मम मैत्री? । तद्गम्यताम् । मैत्री विरोधभावा- स्कथम् ? । उक्तञ्च- ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोमैत्री विवादश्च, न तु पुष्टविपुष्टयोः ।। ३०॥ तथाच- यो मित्रं कुरुते मूढ आत्मनोऽसदृशं कुधीः । हीनं वाऽप्यधिकं वापि हास्यतां यात्यसौ जनः ॥ ३१ ॥ तद्गम्यताम्'-इति । वायस आह-'भो हिरण्यक! एषोऽहं तव दुर्गद्वारे उपविष्टः, यदि त्वं मैत्री न करोषि-ततोऽहं प्राण- मोक्षणं तवाग्रे करिष्यामि । अद्यारभ्य प्रायोपवेशनं मे स्यात्-' इति । हिरण्यक आह-भोः ! त्वया वैरिणा सह कथं मैत्री करोमि ?। उक्तञ्च- वैरिणा न हि सन्दध्यात्सुश्लिष्टेनापि सन्धिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥३२॥ वायस आह-भोः ! त्वया सह दर्शनमपि नास्ति,-कृतो वैरम् ! तत्किमनुचितं वदसि ? । हिरण्यक आह–'द्विविध वैरं भवति, सहज. कृत्रिमञ्च । तत्सहजवैरी त्वमस्माकम् । उक्तञ्च- सकाशात् त्वया कृतम् । भोक्ता-भक्षकः । विरोधभावात्=विरोधात् ।मैत्री कथं? न कथमप्युचितेति भाव । पुष्टविपुष्टयो =अधिकवल-हीनबलयो. ॥ ३० ॥ प्राणमोक्षण प्राणत्याग । प्रायोपवेशन भरणपर्यन्तमन्नत्याग, ('अनशन' 'धरना')। सन्दध्यात्-मेलनं कुर्यात् । सुश्लिष्टेन-अतिदृढेन, स्वानुकूलतमेन अथवा' पा०॥ ,