पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतनम् *

- [ २ मित्र- मित्रवान्साधयत्यर्थान्दुःसाधानपि वै यतः । तस्मान्मित्राणि कुर्वीत समानान्येव चाऽऽत्मनः ॥ २८ ॥ लघुपतनकोऽपि वायसः सर्वे तं चित्रग्रीवबन्धमोक्षमवलो क्य विस्मितमना व्यचिन्तयत्-'अहो! वुद्धिरस्य हिरण्यकस्य, शक्तिश्च, दुर्गसामग्री च। तदीगेव विधिर्विहङ्गानां बन्धन- मोक्षात्मकः। यद्यप्यहं न कस्यचिद्विश्वसिमि, चलप्रकृतिश्च, तथाप्येनं मित्रं करोमि। उक्तञ्च- अपि सम्पूर्णतायुक्तैः कर्तव्याः सुहृदो बुधैः । नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते ॥ २९॥ एवं सम्प्रधार्य पादपावतीर्य विलद्वारमाश्रित्य चित्रनीवव. च्छब्देन हिरण्यकं समाहृतवान् -'एोहि भो हिरण्यक ! पहि। तच्छन्दं श्रुत्वा हिरण्यको व्यचिन्तयत्-'किमन्योऽपि कश्चित्क- पोतो बन्धनशेषस्तिष्ठति येन मां व्याहरति !' आह च-भोः! को भवान् ?' । स आह-'अह लघुपतनको नाम वायसः ।' तच्छुत्वा विशेषादन्तीनो हिरण्यक आह-भोः ! द्रुत गम्य- तामस्मात्स्थानात् ।' वायस आह-'अहं तव पार्श्व गुरुकार्येण समागतः, तत्किन क्रियते मया सह दर्शनम् ? ।' हिरण्यक आह ! न मेऽस्ति त्वया सह सङ्गमेन प्रयो. ॥ २७ ॥ शक्ति =सामर्थ्यम् । दुर्गसामग्री दुर्गादिरक्षासामग्री च । 'अस्तीति शेषः । विहङ्गाना-पक्षिणाम् । ईगिति । यथा चित्रग्रीवेण धैर्यमवलम्ब्य हिरण्यकसाहाय्येनात्मा मोचितो बन्धनादेवं सर्वेरेव पक्षिभिर्बुद्धि-मित्रादि- वलेनात्मा विपत्तेर्मोचनीय इत्यर्थ । वन्धमोक्षप्रसङ्गश्च पक्षिणां प्रायो भवत्येवेति मयाऽपि स्ववन्धमोक्षार्थमेष मित्रतयाऽऽश्रयणीय एवेत्याशय । एनं हिरण्यकम्। सम्पूर्णतायुक्तै. समृद्धः, शक्तिशालिभिश्च ॥२९॥ सम्प्रधार्य=निश्चित्य। पादपात्= वृक्षात् । विशेषात् पूर्वापेक्षयाप्यधिकम् । अन्तर्लीनः विलान्तर्निगूढ सन् । नव 'समान्येव श्रियाऽऽत्मन' इति पा० । २ 'सम्पूर्णेनापि कर्त्तव्यं मित्रमम्पुदयार्थिना । उदधि. परिपूर्णापि स्वातेर्जलमपेक्षते' । पा