पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति-]]

  • अभिनवराजलक्ष्मीविराजितम् *

१७९ यः संमानं सदा धत्ते भृत्यानां क्षितिपोऽधिकम् । वित्ताऽभावेऽपि तं हृष्टास्ते त्यजन्ति न कर्हि चित् ।। २४ ॥ न्तथा च- विश्वासः सम्पदा मूलं तेन यूथपतिर्गज.। सिहो मृगाधिपत्येऽपि न मृगैः परिवार्यते ॥ २५ ॥ अपरं-मम कदाचित्पाशच्छेदं कुर्वतस्ते दन्तभङ्गो भवति, अथवा दुरात्मा लुब्धकः समभ्येति, तन्नून मम नरकपात एव । उक्तञ्च- सदाचारेपु भृत्येषु संसीदत्सु च यः प्रभुः । सुखी स्यान्नरकं पाति परत्रेह च सीदति ।। २६ ।। तच्छुत्या प्रहृष्टो हिरण्यकः प्राह-भोः । वेन्नयहं राजधर्म, पर मया तव पराक्षा कृना, तत्सर्वेषां पूर्व पाशच्छेद करिष्यामि। भवानप्यनेन विधिना वहुकमतपरिवारो भविष्यति । उक्तञ्च- कारुण्य संविभागश्च यस्य भृत्येपु सर्वदा । सम्भाव्य स महीपालबैलोक्यस्यापि रक्षणे ।। २७ ।। एवमुक्त्वा सर्वेपां पाशच्छेदं कृत्वा हिरण्यकश्चित्र ग्रीवमाह- 'मित्र ! गम्यतामधुना स्वाश्रयं प्रति, भूयोऽपि व्यसनेप्राप्त समा- नान्तरम्'-इति । तान्सम्प्रेष्य हिरण्यकः पुनरपि दुर्ग प्रविष्टः । चित्रग्रोवोऽपि सपरिवारः स्वाश्रयमगमत् । अथवा साध्विमुच्यते । वा को गुण १ । न किमपि । हा! केवल व्यसनव्याजेन विपत्तिच्छलेन-कालो जगत्कर्षतीत्यर्थ ॥२३॥ भृत्या -इत्यस्य सम्भाव्या' इति शेष । सत्कार्या इत्यर्थः। तेन=विश्वासेनैव । मृगाधिपतिरपि न मृगै सेव्यतेऽविश्वासात् । विश्वासाच्च पुन -यूथपो गजो गजै परिवार्यते ॥ २५॥ परत्रपरलोके। नरकं याति= नरके वसति । इह-अस्मिन् लोके । सीदति क्लेगमनुभवति ॥ २६ ॥ राजधर्म= राजनीतिम् । अनेन विविना कारुण्यपूर्णव्यवहारादिना । संविभाग =आत्मतुल्योपचार , सम्यगवेक्षणं, यथायोग्य सत्कारश्च । स महीपाल- स्त्रैलोक्यस्याऽपि रक्षणे-सम्भाव्य त्रैलोक्यपालकोऽय भवि यतीति सम्भावनीयः। कारुण्य-क्ररुणा।