पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६

  • पञ्चतन्त्रम् *

[२ मित्र- जालमपि मे नष्टम् । चित्रग्रीवोऽपि लुब्धकमदर्शनीभूतं ज्ञात्वा तानुवाच-भोः ! निवृत्तः स दुरात्मा लुब्धकः। तत्सर्वैरपि स्वस्थैर्गम्यतां महिलारोप्यस्य प्रागुत्तरदिग्भागे। तत्र मम सुह. द्धिरण्यको नाम सूपकः सर्वेषां पाशच्छेदं करिष्यति । उक्तञ्च- सर्वेषामेव मानां व्यसने समुपस्थिते । वाड्मात्रेणापि साहाय्यं मित्रादन्यो न सन्दधे ।। १२ ।। एवन्ते कपोताश्चित्रग्रीवेण संबोधिता महिलारोप्ये नगरे हिरण्यकबिलदुर्ग प्रापुः। हिरण्यकोऽपि सहस्रबिलदुर्ग प्रविष्टः सन्नकुतोभयः सुखेनास्ते । अथवा साध्विदमुच्यते- अनागतं भयं दृष्ट्वा नीतिशास्त्रविशारदः । अवसन्मूपकस्तत्र कृत्वा शतमुखं बिलम् ।। १३ ॥ दंष्ट्राविरहितः सर्पो मदहीनो यथा गजः । सर्वेषां जायते वश्यो दुर्गहीनस्तथा नृपः ॥ १४ ॥ तथा च-न गजानां सहस्रेण न च लक्षण वाजिनाम् । तत्कर्म साध्यते राज्ञां दुर्गेणैकेन यद्रणे ॥ १५ ॥ शतमेकोऽपि सन्धत्ते प्राकारस्थो धर्नुधरः । तस्मादुर्ग प्रशंसन्ति नीतिशास्त्रविदो जनाः ॥ १६ ।। निधिः-शङ्खाकारो निधिरपहृत , ततो दुखितेन विप्रेण प्रार्थित शम्भुर्मपाशङ्ख पूर्वशङ्खादपि गुणवत्तरतया भाव्यमानं दत्तवान् । तद्गुणाकर्णनलुब्धेन वणिजा स्वद्रविणसहितं पूर्व गृहीतं शङ्खनिधि दत्त्वा स मृषाशङ्खो (लपोडशंख ) गृहीत , स च केवलं वदति, न किञ्चिदपि ददातीति सर्वधनापहारो वैश्यस्य शङ्खनिधि- चौर्यफलतया जात इति लौकिकी कथा । विहङ्गामिपाय-पक्षिमासस्य-लोभ । कुटुम्बवर्तन-कुटुम्बजीविका('रोजी')। स्वस्थै =अव्याकुलै , संदधे विधत्ते ॥१२॥ हिरण्यकस्य विलमेव दुर्ग ('किला')। अकुतोभया निर्भय । अनागतमपि अनुपस्थितमपि, दृष्टया बुद्ध्या पूर्वमेव विभाव्य । दंष्ट्रा-विषदंष्ट्रा ('जहर के दात') ॥ १४॥ साध्यते' इत्यत्र 'जायते' इत्यपि पठन्ति ॥ १५॥ सन्धत् युध्यते ॥ १६ ॥