पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[२ मित्र-

जिह्वालौल्यप्रसक्तानां जलमध्यनिवासिनाम् ।

अचिन्तितो वधोऽज्ञाना मीनानामिव जायते ।।३।। पौलस्त्यः कथमन्यदारहरणे दोपं न विज्ञातवान् ? रामेणापि कथं न हेमहरिणस्यासम्भवो लक्षितः १ । अक्षैश्चापि युधिष्ठिरेण सहसा प्राप्तो ह्यनर्थः कथं ?, प्रत्यासन्नविपत्तिमूढमनसां प्रायोः मतिः क्षोयते ॥४॥ तथाच- कृतान्तपाशबद्धानां दैवोपहतचेतसाम् । बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥५॥ अत्रान्तरे लुब्धकस्तान्बद्धान्विज्ञाय प्रहृष्टमनाः प्रोद्यतयष्टि- स्तद्वधार्थ प्रधावितः। चित्रग्रीवोऽप्यात्मानं सपरिवारं बद्ध मत्वा लुब्धकमायान्तं दृष्ट्वा तान्कपोतानूचे-अहो न भेतव्यम् ! उक्तञ्च- व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते । स तेपां पारमभ्येति तत्प्रभावादसंशयम् ॥ ६॥ संपत्तौ च विपत्तौ च महतामेकरूपता। उदये सविता रक्तो रक्तश्चाऽस्तमये तथा ॥ ७ ॥ तत्सर्वे वयं हेलयोड्डीय सपाशजाला अस्याऽदर्शनं गत्वा जिह्रालोल्यप्रसक्तानाम् स्वाद लुब्धाना, अज्ञाना, जलमध्यनिवासिना मीना- नामिव जडमध्यनिवासिनाम् । (जल-जड) अचिन्तित -अतर्कित , वधो जायते ॥३॥ पौलस्त्य =रावण । अन्यदारहरणे-सीताहरणे । लक्षित =जात । अझै = पाशकै । अनर्थ , राजनाशरूप । क्षीयते नश्यति ॥४॥ कृतान्त. यम । कुब्ज गामिन्य. विकलगमना , विपरीता , कुण्ठिता इति यावत् ॥५॥ तद्वधार्थ कपोत- वधार्थम् । हीयते अवसीदति । तेषा-व्यसनानाम्। तत्प्रभावात्-युद्धिसाम- र्थ्यात् ॥ एकरूपता सादृश्यम् । रक्त रक्तवर्ण , अनुरक्तश्च ॥ ७ ॥ हेल या= १ 'दैवेनाविष्टचेनमा मिति पाठान्तरम्। २ 'पारमभ्येत्य प्राप्तानि परम नुख'भिति पा०