पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- तथाच- राजा घृणी, ब्राह्मणः सर्वभक्षी स्त्री चाऽत्रपा, दुष्टमतिः सहायः । प्रेष्यः प्रतीपोऽधिकृतः प्रमादी, त्याज्या अमी, यश्च कृतं न वेत्ति ।। ४५८ ॥ अपि च- सत्याऽनृता च परुपा प्रियवादिनी च हिंस्रा दयालुरपि चाऽर्थपरा वदान्या । भूरिव्यया प्रचुरवित्तसमागमा च वेश्याङ्गनेव नृपनीतिरनेकरूपा ।। ४५९ ।। अपि च- अकृतोपद्रवः कश्चिन्महानपि न पूज्यते । पूजयन्ति नरा नागान्न ताय नागघातिनम् ॥४६॥ तथाच- अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च मापसे । गतासूनगतासुंश्च नाऽनुशोचन्ति पण्डिताः ॥४६१।। घृणी-दयावान् । अत्रपा=निर्लज्जा । सहाय =अनुचरः मित्रञ्च । प्रेप्या भृत्य. । प्रतीप.-विरुद्ध । अधिकृत अधिकारारुढ । (अफसर) प्रमादी अनवधानपरः । ('वेपरवाह' )। कृतं न वेत्ति-कृतघ्नः ।। सत्यासत्यवदवभासमानाऽपि । अनृता-कूटकपटकुटिला । प्रियवादिनी प्रियंवदाऽपि, परुषा-कठोरा । दयाल =दयापराऽपि । हिला हिंसापरा । अर्थ- परा-धनलोलुपा । वदान्या दानपरा च । नित्यव्ययेति पाठान्तरम् । भूरिव्यया, बहुलायव्ययवती च । नृपनीति =राजनीति । अनेकरूपा-विरोधिनानागुणवती ।। ॥ ४५९ ॥ महानपि पूजनीयगुणोपेतोऽपि । अकृतोपद्वः अलंगद.। नागान्- सर्पान् । तार्थ्य-गरुडम् ॥ ४६० ।। प्रज्ञावादान्=पाण्डित्यपूर्णानि वाक्यानि। ('बहुत बढ बढ कर बोलते हो')। गतासून्-मृतान् । अगतासून् जीवतोऽपि लोकान् ॥ ४६१ ॥