पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

१६९ रहितमवलोक्याऽपरे चत्वारोऽपि मुक्ताः । अतोऽहं ब्रवीमि- 'पण्डितोऽपि वर शत्रुः-'इति । अथैवं संवदतोस्तयोः सञ्जीवकः क्षणमेकं पिङ्गलकेन सह युद्धं कृत्वा तस्य खरनखरमहाराभिहतो गतासुर्वसुन्धरापोठे निपपात। अथ तं गतासुमवलोक्य पिङ्गलकस्तद्गुणस्मरणार्द्रहृदयः प्रोवाच-'भो. । अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता । यतो विश्वासघातादन्यन्नास्ति पापतर कर्म । उक्तञ्च- मित्रद्रोही कृतन्नश्च यश्च विश्वासघातकः । ते नरा नरकं यान्ति यावच्चन्द्रदिवाकरौ ।। ४५४ ॥ भूमिक्षये राजविनाश एव भृत्यस्य वा बुद्धिमतो विनाशे । नोयुक्तमुक्तं ह्यनयोः समत्वं, नष्टापि भूमिः सुलभा न भृत्याः॥४५५।। तथा मया सभामध्ये स सदैव प्रशंसितः । ततिक कथयि प्यामि तेषामग्रतः। ? उक्तञ्च- उक्तो भवति यः पूर्व 'गुणवा' निति संसदि । न तस्य दोपो वक्तव्यः प्रतिज्ञाभङ्गभीरुणा॥ ४५६ ।। एवं वहुविध प्रलपन्तं दमनकः समेत्य सहर्षमिदमाह- 'देव ! कातरतमस्तवैष न्यायो, यद्-द्रोहकारिणं शष्पभुजं हत्वेत्थं शोचसि !। तन्नैतदुपपन्नं भूभुजाम् । उक्तञ्च- पिता वा यदि वा भ्राता पुत्रो भार्याऽथवा सुहृत् । प्राणद्रोहं यदा गच्छेद्धन्तव्यो, नास्ति पातकम् ।। ४५७ ॥ रत्नरहितम् । तथानुष्ठिते-पण्डितचौरे हते सति । गतासु =मृत सन् । पापेन= पापशीलेन । भूमिक्षये-सति राजविनाश एव-राज्ञो विनाश एव मन्तव्य । किञ्च योग्यस्य मृत्यस्य विनाशे च राजविनाशो मन्तव्य । परमनयोभूमिमृत्य- योर्विनाशयो समता न, यतो नष्टापि भूमि 'सुलभा, परं नष्टा भृत्या न सुलभा इति सम्वन्ध ॥ ४५५ ॥ तेषां सभ्यानाम् । यदा राजप्राणद्रोहं गच्छेत् राज- वधोद्यत स्यात्तदा सोऽवश्यं हन्तव्य , तत्र हते पातक नास्तीत्यर्थ ॥ ४५७ ॥