पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

१६५ तद्गम्यतामनेन सार्ध स्नानोपकरणमादाय'-इति । अहो ! साध्वि- दमुच्यते- न भक्त्या कस्यचित्कोऽपि प्रियं प्रकुरुते नरः। मुक्त्वा भयं प्रलोभं वा कार्यकारणमेव वा ॥४४५॥ तथाच- अत्यादरो भवेद्यन कार्यकारणवर्जितः । तत्राऽऽशङ्का प्रकर्तव्या परिणामे सुखावहा॥ ४४६ ।। अथाऽसौ वणिक्शिशुः स्नानोपकरणमादाय प्रहृष्टमनास्ते नाऽभ्यागतेन सह प्रस्थितः। तथानुष्ठिते स वणिक्स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य तद्वारं बृहच्छिलयाऽऽच्छाद्य सत्वरं गृहमागत । पृष्टश्च तेन वणिजा-'भोः ! अभ्यागत ! कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदीं गतः ?'-इति । स आह-'नदीतटात्स श्येनेन हृतः' इति । श्रेष्ठयाह-'मिथ्यावादिन् ! किं क्वचिच्छयेनो बालं हर्तुं शक्नोति ? । तत्समर्पय मे सुतम् , अन्यथा राजकुले निवेदयिष्यामि'-इति । स आह 'भोः ! सत्यवादिन् ! यथा श्येनो बालं न नयति,-तथा मूषिका अपि लोहतुलासहस्रघटितां तुलां न भक्षयन्ति, तदर्पय मे तुलाम् , यदि दारकेण प्रयोजनम्।' एवन्तौ विवदमानौ द्वावपि राजकुलं गतौ । तत्र श्रेष्ठी तार- स्वरेण प्रोवाच-भोः अब्रह्मण्यम् ! अब्रह्मण्यम् ! मम शिशुरनेन चौरेणाऽपहृतः'। अथ धर्माधिकारिणस्तमूचुः-भोः ! समयतां श्रेष्ठिसुतः।' स आह-'कि करोमि ? 1 पश्यतोमे नदीतटाच्छयेनेनापहृतः 'लोहपलसहस्रघटिते' त्यस्य स्थाने-लोहमारघटित ति क्वचित्पाठ । निक्षेप = 'न्यास । ('धरोहर' )। निक्षेपतुला निक्षेपभूता तुला । शाश्वत स्थिरम् । तत्= तस्मात् । स्नानोपकारण धौतवत्रादि । कार्यकारणम् प्रयोजनादिकम् ('मतलब') ॥ ४४५ ॥ श्येनः पत्री ('वाज' ) । दारकेण वालकेन । अब्रह्मण्यम्-महान- १ 'भयावहा' 'असुखावहा' 'अभयावहेति च पाठान्तराणि । २ (न्यास 'गहना धरना' कर्जा लेने के लिये )।