पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

सर्वे वकाः संक्षयमायान्ति । उक्तञ्च- 'नवनीतसमां वाणी कृत्वा चित्तं तु निर्दयम् । तथा प्रबोध्यते शत्रु. सान्वयो म्रियते यथा' ।। ४४०॥ आह च-'माम ! यद्येवं तन्मत्स्यमांसखण्डानि नकुलबिल- द्वारात्सर्पकोटर यावत्प्रक्षिप, यथा नकुलस्तन्मार्गेण गत्वा तं दुष्टसर्प विनाशयति।' अथ तथानुष्ठिते मत्स्यमांसानुसारिणा नकु- लेन तं कृष्णसर्प निहत्य सोऽपि, तबृक्षाश्रयाः सर्वे बकाश्च शनैः शनैभक्षिता । अतो वयं ब्रूमः-'उपायं चिन्तयेत्- 'इति । 8 तदनेन पापवुद्धिना उपायश्चिन्तितो नाऽपायः, ततस्तत्फलं प्राप्तम् ।' अतोऽहं ब्रवीमि-धर्मबुद्धिः कुबुद्धिश्च-' इति । एवं मूढ ! त्वयाऽप्युपायश्चिन्तितो नाऽपायः, पापबुद्धिवत् । तन्न भवसि त्वं सजना, केवलं पापवुद्धिरसि । ज्ञातो मया, स्वामिन प्राणसन्देहानयनात् । प्रकटीकृतं त्वया स्वयमेवात्मनो दुष्टत्वं, कौटिल्यञ्च । अथवा साध्विमुच्यते- यत्नादपि कः पश्येच्छिखिनामाहारनि सरणमार्गम् । यदि जलध्वनिमुदितास्त एव मूढा न नृत्येयुः ।। ४४१ ।। यदि त्वं स्वामिनमेनां दशां नयसि! तदस्मद्विधस्य का गणना ? । तस्मान्ममासनेन भवता न भाव्यम् । उक्तञ्च- तद्विनाशाय-सर्पनाशाय । सत्यानृत-कपटपूर्ण सत्य । सत्यमिव-हितकारकमिव-. भासमानमपि परिणामे हानिकारकम् । नवनीत हैयह्नवीन= ('नौनी घी' 'मक्खन')। सान्वय सपुत्रकलत्रभृत्यपरिवार ॥४४०॥ त्वया दमनकेन । स्वामिन =पिङ्गलकस्य । युद्धे हि प्राणाना सन्देह स्फुट एवेत्याशय । शिखि- नाम्-मयूराणाम् । आहारनिस्सरणमार्ग-मलनिर्गमनद्वार । गुदम् । वहभारावृत- त्वात्तगुदस्येति भाव । जलदध्वनिमुदिता =मेघध्वनि श्रवणहर्पिता । नृत्ये वहभार- स्योचैरुत्थापनान्मलनिर्गमनमार्ग (स्वगुदच्छिद) तै स्वयमेवात्मनश्चञ्चल्यात्प्रकटी- क्रियते इत्याशय ॥ ४४१ ॥ 4