पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"भेदः]

  • अभिनवराजलक्ष्मीविराजितम् *

१४९ vu धर्मार्थ यततामपीह विपदो दैवाद्यदि स्युः क्वचि- त्तत्तासामुपशान्तये सुमतिभिः कार्यो विशेपान्नयः । लोके ख्यातिमुपागताऽत्र सकले लोकोक्तिरेपा यतो- 'दग्धानां किल वह्निना हितकरःसेकोऽपि तस्योद्भवः॥४०२॥ तथाच- लोकेऽथवा तनुभृतां निजकर्मपाकं नित्यं समाश्रितवता विहितक्रियाणाम् । भावार्जितं शुभमथाप्यशुभं निकामं यद्भावि तद्भवति, नाऽत्र विचारहेतुः ।।४०३।। अपरञ्च-अन्यत्र गतस्यापि मे कस्यचिदुग्रसत्त्वस्य मांसा- शिनः सकाशान्मृत्युभविष्यति, तद्वरं सिहात् । उक्तञ्च- महद्भिः स्पर्धमानस्य विपदेव गरीयसि । दन्तभङ्गोऽपि नागानां श्लाघ्यो गिरिविदारणे ।। ४०४ ।। तथाच- महतोऽपि क्षयं लब्ध्वा श्लाघां नीचोऽपि गच्छति । दानार्थी मधुपो यद्वद्गजकर्णसमाहतः ॥ ४०५ ॥ एवं निश्चित्य स स्खलितगतिर्मन्दं गत्वा सिंहाश्रयं पश्यन्न- धर्मार्थमिति । इह लोके । तासा-विपदाम् । विशेपात्-विशेपत । नय = चक्ष्यमाणा नोति । नयमेवाह-लोक इति । तस्योद्भव =वह्निप्रभव । उष्ण इति यावत् । सेक-ताप । ( सेकना ) ॥ ४०२ ॥ तनुभृतां देहिनाम् । निजेति । स्वकृतशुभाशुभकर्मफलं समाश्रिताना। विहितक्रियाणा शुभाशुभकर्म कुर्वताम् । भावार्जितं वासनाकलित । यद्वा-भाव -क्रिया-स्वस्वकमैव । 'पूर्वार्जित मिति परे पठन्ति । तदुत्थितम् , शुभमशुभ वा फल स्वयमेव नितरा भवति, अत्र चिन्तया न किमपि कर्तुं शक्यत इत्यर्थ ॥ ४०३ ॥ उग्रसत्त्वस्य व्याघ्रादे । गिरिविदारणे पर्वतभेदने। नागाना=गजानाम् । महत सकाशात्-क्षय=पीडा, विनाशञ्च । श्लाघा-प्रशंसाम् । 'श्लाघ्य मिति पाठे-श्रेष्ठं पद, यशश्च । नीचोपि= लघुरपि । दानार्थी मदलुब्ध । गजकर्णतालाहतस्य भ्रमरस्य प्रशंसा, गजस्य निन्दा च कविभि काव्ये क्रियत एवेति भाव ॥४०५॥