पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८

  • पञ्चतन्त्रम् *

[१मिन- चतुरक आह-स्वामिन् ! एष धर्मराजस्तवोपरि कुपितः- 'यदनेनाऽकाले दासेरकोऽयं मदीयो (मां प्रतिभुवं दत्त्वा) व्यापादितः, तत्सहस्रमुष्ट्रमस्य सकाशाद्रहीष्यामि'-इति निश्चि- त्य बृहदुष्ट्रमानमादायाऽग्रेसरस्योष्ट्रस्य ग्रीवायां घण्टां वद्धा वध्यदासेरकसक्तानपि पितृपितामहानादाय वैरनिर्यातनार्थ मायात एव।' सिंहोऽपि तच्छ्रुत्वा-सर्वतो दूरादेवावलोक्य-मृतमुष्ट्रं परि- त्यज्य प्राणभयात्प्रनष्टः । चतुरकोऽपि शनैः शनैस्तस्योष्ट्रस्य मांसं चिरं भक्षयामास।अतोऽहं ब्रवीमि-परस्य पीडनं कुर्वन्'-इति। 8 अथ दमनके गते सञ्जीवकश्चिन्तयामास-'अहो! किमेत. न्मया कृतम्, यच्छष्पादोऽपि मांसाशिनस्तस्याऽनुगः संवृत्तः। अथवा साध्विदमुच्यते- अगम्यान् यः पुमान् याति असेव्यांश्च निषेवते । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥४०१।। तत्कि करोमि ?, क्व गच्छामि ? कथं मे शान्तिर्भविष्यति?। अथवा तमेव पिझलकं गच्छामि,-कदाचिन्मां शरणागतं रक्षति, प्राणन वियोजयति । यत उक्तञ्च- अकाले मृत्युकालेऽनुपस्थिते एव । अस्य-सिहस्य । उष्ट्रमानंदासेरक- प्रमाणम् । उष्ट्रवृन्दमिति यावत् । अग्रेसरस्य-पुरोवर्तिन । वध्यदासेरकसक्तान्= हतशङ्कुकर्णसम्बन्धिनः । वैरनिर्यातनार्थ-वैरशोधनाय (बदला लेने को )। प्रनष्टः- पलायित । शष्पाद' घासभक्षकोऽप्यहम् । अनुग =अनुचर । अगम्यान अनुपसर्प- णीयान् , उपगृह्णाति-मृत्युमुपादत्ते। अश्वतरी-गर्दभीविशेष । (खच्चरी)। 'अश्वतरी यदाऽऽसन्नप्रसवा भवति तदा सा म्रियते' इति लोकविदः ॥ ४०१ ॥ शान्तिः-चित्तनिर्वृतिः, रक्षा च । तमेव विकृतमपि पिङ्गलकमेव । १ तदीयपितृपितामहानपि गवेषयितुकाम इत एव सन्निहितोऽभ्युपैति' । पा०