पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

१४७ सोऽपि तच्छुत्वा यावत्किञ्चिन्मांसमास्वादयति तावच्चतुर- केणोक्तम्-'भोः क्रव्यमुख ! समागच्छति स्वामी, तत्त्यक्त्वैनं दूरे तिष्ठ, येनास्य भक्षणं न विकल्पयति । 'तथानुष्ठिते सिंहः समा- यातो यावदुष्ट्रं पश्यति तावद्रिक्तीकृतहृदयो दासेरकः । ततो भृकुटिं कृत्वा परुषतरमाह-'अहो!केनैष उष्ट्र उच्छिष्टता नीतो येन तमपि व्यापादयामि ।' एवमभिहिते सक्रव्यमुखमव- लोकयति-'किल तद्वद किंचिद्येन मम शान्तिर्भवति'। अथ चतुरको विहस्योवाच-'भो ! मामनादृत्य पिशितं भक्ष- यित्वाऽधुना मन्मुखमवलोकयसि ?। तदास्वादय तस्य दुर्णय- तरोः फलम्'-हात । तदाकर्ण्य क्रव्यमुखो जीवनाशभयाद्रदेश गतः। एतस्मिन्नन्तरे तेन मार्गेण दासेरकसार्थो भाराकान्तः समा- यातः । तस्याऽग्रसरोष्ट्रस्य कण्ठे महती घण्टा बद्धा। तस्याः शब्दं दूरतोऽप्याकर्ण्य सिंहो जम्बुकमाह-भद्र ! शायतां किमेष रौद्रः शब्दः श्रूयतेऽश्रुतपूर्वः ? । तच्छ्रुत्वा चतुरकः किञ्चिद्वनान्तरं गत्वा सत्वरमभ्युपेत्य प्रोवाच-स्वामिन् ! गम्य- तां गम्यतां, यदि शक्नोषि गन्तुम् ।' सोऽब्रवीत्-'भद्र! किमेवं मां व्याकुलयसि?' तत्कथय किमेतत् ?'-इति । 'स्वामिन' इति पाठे 'पुरत 'इति शेषो बोध्य । सम्बन्धसामान्ये वा षष्ठी। विकल्पयति वितर्कयति । रिक्तिकृतहृदय -हृदयशून्य । परुषतरमिति क्रियाविशे- षणम् । तत्-तथा। किञ्चिद्वद येन यथा। मम शान्ति =ममोपरि सिंहजातस्य कोपस्य शान्ति । 'येनायमुपशाम्यतीति लिखितपुस्तकपाठ । मामना दृत्य मदुक्तमविगणय्यैव । पिशितम्-मासम्। तस्य एकाकिमासभक्षणरूपस्य दुर्णयतरो=अनीतिपादपस्य । किं कुत । रोग =भयङ्कर ।किञ्चिद्वनान्तरं गत्वा=कियडूरं वनमध्ये गत्वा। दासेरकसार्थ =उष्ट्रवृन्दं । तस्य-उष्ट्रसार्थस्य । किमेतत् किमिदम् ? ( यह क्या बात है)। १ 'अभ्येत्य सावेगम् ।