पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

१४५ . एवमनुष्ठिते चत्वारोऽपि ते एकस्थाने विहारिणः परस्परमनेक- प्रकारगोष्टीसुखमनुभवन्तस्तिष्ठन्ति । शङ्कुकर्णोऽपि यौवनपदवी- मारूढः क्षणमपि न तं सिंहं मुञ्चति । अथ कदाचिद्वज्रदंष्ट्रस्य केनचिद्वन्येन मत्तगजेन सह युद्धम- भवत् । तेन मदवीर्यात्स दन्तप्रहारैस्तथा क्षतशरीरो विहितो, यथा प्रचलितुं न शक्नोति। तदा क्षुत्क्षामकण्ठस्तान्प्रोवाच- भोः! अन्विष्यतां किञ्चित्सत्त्वं येनाहमेवंस्थितोऽपि तद्व्यापा- द्यात्मनो युष्माक च क्षुत्प्रणाशं करोमि । तच्छुत्वा ते त्रयोऽपि वने सन्ध्याकालं यावद्भान्ताः, परं न किञ्चित्सत्त्वमासादितम् । अथ चतुरकश्चिन्तयामास-यदि शकुकर्णोऽयं व्यापाद्यते ततः सर्वेषां कतिचिद्दिनानि तृप्तिर्भवति, परं नैनं स्वामी मित्र- स्वादाश्रयसमाश्रितत्वाच्च विनाशयिष्यति । अथवा-बुद्धिप्रभा- वेण स्वामिनं प्रतिबोध्य तथा करिष्ये यथा व्यापादयिष्यति। . अवध्यं चाऽथवाऽगम्यमकृत्यं नास्ति किञ्चन । लोके बुद्धिमतां बुद्धेस्तस्मात्तां विनियोजयेत् ।। ४०० ।। एवं विचिन्त्य शकुकर्णमिदमाह-'भोः शङ्कुकर्ण! स्वामी तावत्पथ्य विना क्षुधया परिपीड्यते, स्वाम्यभावादस्माकमपि ध्रुवं विनाश एव, ततो वाक्य किञ्चित्स्वाम्यर्थे वदिष्यामि, तच्छ्रयताम् । एवमनुष्ठिते=सिहेनाऽभयदाने दत्ते । चत्वार =सिहगोमायुकदासेरका । विहारिण = क्रीडन्त । यौवनपदवी युवावस्थाम् । आरुढ प्राप्त । मदवीर्यात् मदोद्रेकमूलकपराक्रमातिशयात् । तान् वृकशृगालदासेरकान् । एवंस्थित =क्षत- विशीर्णाशोऽपि । तत् सत्त्वम् ।क्षुत्प्रणाशं-बुभुक्षाशान्तिम् । सन्ध्याकालं यावत्= सन्ध्याकालपर्यन्तम् । चतुरक =शृगाल । एनम्-उष्ट्रम् । प्रतिबोध्य-सम्यक् बोधयित्वा ('समझा कर')। अवध्यमिति । बुद्धिमता बुद्ध -अवध्यम्, अगम्यम्=अप्राप्यम् , कर्तुम- शक्यञ्च किमपि नास्तिाविनियोजयेत् कर्मसुयोजयेत्। योजयाम्यह'मित्यपि पाठ । १०