पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-१४२

  • पञ्चतन्त्रम् *

[१ मित्र- दैवं निहत्य कुरु पौरुपमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥३९२॥ करटक आह-'तत्कथय कीदृक्त्वया नीतिबीजं निर्वापि- तम् ? । सोऽब्रवीत्-'मयाऽन्योन्यं ताभ्यां मिथ्याप्रजल्पनेन भेद- स्तथा विहितो यथा भूयोपि तौ मन्त्रयन्तावकस्थानस्थितौ न द्रक्ष्यसि।' करटक आह-'अहो न युक्तं भवता विहितं यत्परस्परं तौ स्नेहाहृदयौ सुखाश्रयो कोपसागरे प्रक्षिप्तौ । उक्तञ्च- अविरुद्धं सुखस्थं यो दुःखमार्गे नियोजयेत् । जन्मजन्मान्तरं दुःखी स नरः स्यादसंशयम् ॥ ३९३ ।। अपरं-त्वं यद्भेदमात्रेणापितुष्टस्तदप्ययुक्तम् । यतः सर्वोऽपि जनो विरूपकरणे समर्थो भवति, नोपकर्तुम् । उक्तञ्च- घातयितुमेव नीचः परकार्य वेत्ति न प्रसाधयितुम् । पातयितुमस्ति शक्तिर्वायोवृक्षं न चोन्नमितुम् ॥ ३९४ ।। दभनक आह-'अनभिज्ञो भवानीतिशास्त्रस्य, तेनैतद्रवीषि । उक्तञ्च यतः- जातमात्रं न यः शत्रु व्याधिञ्च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धि प्राप्य स हन्यते ॥ ३९५ ॥ तच्छत्रुभूतोऽयमस्माकं,-मन्त्रिपदापहरणात् । उक्तञ्च- निहत्य दूरीकृत्य । पौरुषम् उद्योग। न सिध्यति कार्य न सिध्यति चेत्, कोऽत्रदोष कस्तव दोषः ? न कोऽपि पुंसो दोष इत्याशय ॥३९२॥ भूयोपि= पुनरपि । तौ=सिंहवृषभौ। क्वचित्ताविति न पट्यते। स्नेहार्द्रहृदयौ स्नेहप्रस्कन्न- मानसौ। सुखाश्रयौ-सुखमनुभवन्तौ। कोपसागरे-परस्परविरोधमहोदधौ। अवि- रुद्ध-सरलम् । अजातशत्रुम् । सुखस्थं सुखिनम् ।दु.खमार्गे दुष्टे मार्गे। असंशय= ध्रुवम् ॥३९३॥ भेदमात्रेण मित्रभेदकरणचातुर्येणैव । विरूपकरणे विरोसम्पा- दने, विकृतिसम्पादने च । घातयितुं विनाशयितुं । प्रसाधयितुं सम्पादयितुम् १ 'पातयितुमेव शक्ति खोरुद्ध मन्नपिटम्' इति पा० ।