पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- निर्भयाऽऽग्नेयं शरंसन्धायाऽभिहितः-'भो दुरात्मन् ! दीयन्तां टिट्टिभाऽण्डानि, नो चेत्स्थलतां त्वां नयामि ।' ततः समुद्रण सभयेन टिट्टिभाऽण्डानि तानि प्रदत्तानि । टिट्टिमेनापि भार्यायै समर्पितानि । अतोऽहं ब्रवीमि-'शत्रोर्बल- मविज्ञाय-इति ।' ® तस्मात्पुरुषेणोद्यमो न त्याज्यः । तदाकर्ण्य सओवकस्तमेव भूयोऽपि पप्रच्छ-'भो मित्र ! -कथं ज्ञेयो मयाऽसौ दुष्टवुद्धिरिति ?। इयन्तं कालं यावदुत्तरो- त्तरस्नेहेन प्रसादेन चाहं दृष्टः, न कदाचित्तद्विकृतिदृष्टा । तत्क- थ्यतां येनाहमात्मरक्षार्थ तद्वधायोद्यमं करोमि।' दमनक आह- 'भद्र ! किमत्र ज्ञेयम् ?' एप ते प्रत्ययः-, यदि रक्तनेत्रस्त्रिशिखां भ्रुकुटि दधानः, सृक्किणी परिलेलिहत्त्वां दृष्ट्वा भवति, तदुष्टवुद्धिः अन्यथा सुप्रसादश्चेति । तदाज्ञापय मां स्वाश्रयं प्रति गच्छामि। त्वया च यथाऽयं मन्त्रभेदो न भवति तथा कार्यम् । यदि निशा -मुखं प्राप्य गन्तुं शक्नोषि, तहेशत्यागः कार्यः । यतः- त्यजेदेकं कुलस्याऽर्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्याऽर्थे आत्मार्थे पृथिवीं त्यजेत् ।। ३८६ ।। आपदर्थे धनं रक्षेदारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेदारैरपि धनैरपि ।। ३८७ ।। बलवताऽभिभूतस्य विदेशगमनं, तदनुप्रवेशो वा नीति । धात् , उत्था उत्पन्ना, लजापि-स्वामिन एवेतिशेष ॥३८५॥ सम्भावयाव = सान्त्वयाव । तथानुष्ठिते-भगवता सहैव गरुडे चलिते सति । शरं वाणम् । सन्धाय-धनुण्यारोप्य । अभिहित. 1. उक्तः । दुरात्मन्-असमीक्ष्यकारिन् ! । असौ-सिह । कथ्यता सिहो मयि दुष्टवुद्धिरित्यत्र प्रत्ययोऽभिधीयताम् । तद्वधाय-सिहवधाय। त्रिशिखा=वलित्रयकुटिला भृकुटि । सृकिणी-ओष्ट- प्रान्तभागं। सुप्रसाद सुप्रसन्न । अयं-मदुक्त । 'मन्त्रो-भिन्नो न भवति तथा कार्यमिति युक्ततर पाठ । निशामुख-प्रदोषम् । (रात मे चुपचाप )। आत्मार्थे स्वात्मरक्षणाय । दारैरपि दारादित्यागेन यदि स्वरक्षण शक्यं, तदापि तद्विधेयमित्यर्थ ॥ ३८७ ॥