पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

१३९ VV अन्यच्च- राजा तुष्टोऽपि भृत्यानामर्थमात्रं प्रयच्छति । ते तु सम्मानितास्तस्य प्राणैरप्युपकुर्वते ॥ ३८३ ॥ -इत्येवं सम्प्रधार्य रुक्मपुरे वैनतेयसकाशं सत्वरमगमत् । वैनतेयोऽपि गृहागतं भगवन्तमवलोक्य त्रपाऽधोमुखः प्रणम्यो- वाच-'भगवन् ! त्वदाश्रयोन्मत्तेन समुद्रेण मम भृत्यस्याऽण्डा- न्यपहृत्य ममावमाननं विहितम् । परं भगवल्लज्जया मया विल- म्बितं, नोचेदेनमहं स्थलत्वमद्यैव नयामि । स्वामिभयाच्छुनो ऽपि प्रहारो न दीयते । उक्तञ्च- येन स्याल्लघुता वाऽथ पीडा चित्ते प्रभो क्वचित् । प्राणत्यागेऽपि तत्कर्म न कुर्यात्कुलसेवकः ।। ३८४ ॥ तच्छ्रुत्वा भगवानाह-'भो वैनतेय ! सत्यमभिहितं भवता । उक्तञ्च- भृत्योऽपराधजो दण्डः स्वामिनो जायते यतः । तेन लज्जाऽपि तस्यैव न भृत्यस्य तथा पुन. ।। ३८५ ।। तदागच्छ येनाऽण्डानि समुद्रादादाय टिट्टिभं सम्भाव- यावः, अमरावती च गच्छावः।' तथाऽनुष्ठिते समुद्रो भगवता धार्य=निश्चित्य । रुक्मपुर-तन्नाम्नि गरुडनगरे। त्रपया लज्जया। अध =अव- नतं मुख, यस्यासौ तथा लजितोऽवनतमुख । भगवल्लज्जया श्रीमद्भयेन लज्जया वा। विलम्बितम् अद्य यावत्तस्यानुगासनं मया न विहितम् । एनं समुद्रम् । स्थलत्व नयामि-तदीयजलशोषणेन स्थलवन्निर्जल करोमि। स्वामिन =कुक्कुर- स्वामिनो वलवत । शुन' कुक्कुरस्याऽपि । येन कर्मणा प्रभोर्लघुता मानहानि , चित्ते पीडा वा स्यात्तत्कर्म सेवकेन न कार्यमित्यर्थ ॥ ३८४ ॥ तेन-मृत्यदण्डेन । तस्यैव-स्वामिन एव । तथा पुन =तादृशी स्वामिनो लज्जा, मृत्यस्य न । 'तस्योत्थेति पाठे तु-पञ्चम्यर्थे षष्ठी, तस्मात् मृत्यापरा- १ तदा भृत्यापराधेन स्वामिन दण्डयेत्किल । यदि क्रूरच दुष्टश्च स्वामी भृत्य न मुञ्चति ॥' इत्यपि पाठ ।