पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८

  • पञ्चतन्त्रम् *

[१ मित्र- 1 प्रभूतजलसनाथं सरः । येन मया मध्यप्रदेशे दन्तैर्गृहीते सति युवां कोटिभागयोस्तत्काष्ठं मया सहितं संगृह्य तत्सरोनयथ.।' तावूचतुः-'भो मित्र ! एवं करिष्यावः, परं भवता मौनव्रान स्थातव्यम् , नो चेत्तव काष्ठात्पातो भविष्यति' तथाऽनुष्ठिते गच्छता कम्वुग्रीवेणाऽधोभागव्यवस्थितं किंचित्पुरमालोकितं, तत्र ये पौरास्ते तथा नीयमानं विलोक्य सविस्मयमिदमूचुः-अहो । चक्राकारं किमपि पक्षिभ्यां नीयते, पश्यत ! पश्यत !! अथ तेषां कोलाहलमाकर्ण्य कम्बुग्रीव आह-भोः, ! किमेष कोलाहलः ? ।' इति वक्तुमना अर्धोक्तिपतितः पौरैः खण्डशः कृतश्च । अतोऽह ब्रवीमि-'सुहृदां हितकामानाम्-'इति ॥७॥ तथाच- अनागतविधाता च प्रत्युत्पन्नमतिस्तथा । द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥ ३४७ ।। टिट्टिभ आह-कथमेतत् ? । साऽब्रवीत्- १४. अनागतविधात्रादिमत्स्यत्रयकथा कस्मिश्चिजलाशयेऽनागतविधाता प्रत्युत्पन्नमतिर्यद्भविष्यश्चेति त्रयो मत्स्याः प्रति वसन्ति स्म । अथ कदाचित्तं जलाशयं दृष्ट्वा- गच्छद्भिर्मत्स्यजीविभिरुक्तं यत्-'अहो ! बहुमत्स्योऽयं हृदः, कदा- चिदपि नास्माभिरन्वेषितः, तदद्य तावदाहारवृत्ति सञ्जाता, सन्ध्यासमयश्च संवृत्तः, ततश्च प्रभातेऽत्रागन्तव्यमिति निश्चयः।' अतस्तेषां तत्कुलिशपातोपमं वचः समाकाऽनागतवि- ॥ ३४६ ॥ लघु-स्वल्पं, (हलका)। कोटिभागयो. अग्रकोणभागयो. । तथाऽ- नुष्टिते लघुकाष्टखण्डे आनीते। पौराः पुरवासिनः। अर्थोक्तिपतित =अर्धवच- नानन्तरमेव पतित । सुखं यथा स्यात्तथा एधेते सुखेन निवसत , जीवितश्च । 'यद्भविष्यति तद्भविष्यतीति वादी-यद्भविष्य ॥ ३४७ ॥ इति इतिनामान । मत्स्यजीविभि =धीवरै.। (अद्य तावत्-'आज तो')। आहारवृत्ति =भोजन-