पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- मत्तेभकुम्भविदलनकृतश्रमं सुप्तमन्तकप्रतिमम् । यमलोकदर्शनेच्छुः सिंह बोधयति को नाम ? ॥३३९।। को मत्वा यमसदनं स्वयमन्तकमादिशत्यजातभयः ? । 'प्राणानपहर मत्तो यदि शक्तिः काचिदस्ति तव' ॥३४०॥ प्रालयलेशमिश्रे मरुति प्राभातिके च वाति जडे । गुणदोपज्ञः पुरुपो जलेन कः शीतमपनयति ? ।। ३४१ ।। तस्माद्विश्रब्धाऽत्रैव गर्भ सुञ्च । उक्तञ्च- यः पराभवसत्रस्तः स्वस्थानं सन्त्यजेन्नरः । तेन चेत्पुत्रिणी माता तद्वन्ध्या केन कथ्यते ? ।। ३४२ ।। तच्छ्रुत्वा समुद्रश्चिन्तयामास-'अहो गर्वः पक्षिकीटस्यास्य, अथवा साध्विमुच्यते- उत्क्षिप्य टिट्टिभः पादावास्ते भङ्गभयादिवः । स्वचित्तकल्पितो गर्वः कस्य नात्रापि विद्यते ? ॥ ३४३ ॥ तन्मयाऽस्य प्रमाणं कुतूहलादपि द्रष्टव्यं, किं ममैषोऽण्डा- 'पहारे कृते करिष्यति?' | इति चिन्तयित्वा स्थित.। अथ प्रसवानन्तरं प्राणयात्रार्थ गतायाष्टिट्टिभ्याः समुद्रो वेलाव्याजेनाण्डान्यपजहार । अथाऽऽयाता सा टिटिभी प्रसवस्थानं शून्यमवलोक्य प्रलपन्ती टिट्टिभमूचे-'भो मूर्ख ! कथितमासीन्मया ते यत्स- मुद्रवेलयाऽण्डानां विनाशो भविष्यति, तरतरं व्रजाव । परं मूढतयाऽहङ्कारमाश्रित्य मम वचनं न करोषि । अथवा साध्वि. दमुच्यते- मालिनम् ॥ ३३८ ॥ अन्तकप्रतिम-मृत्युसदृशम् । अन्तक-यमराजम् ॥३४०॥ प्रालयलेशमिश्रे-तुषारकणसम्पर्कभीषणे, ("बर्फानी हवा')। कोऽपनयति-न कोपीत्यर्थ ॥ ३४१ ॥ विश्रब्धा निश्चिन्ता । पक्षिकीटस्य-विगापसदस्य । आस्ते शेते । दिव -गगनस्य । भगभयात् पतनभयात् ॥ ३४३ ॥ प्रमाण बलम् । प्राणयात्रार्थ भोजनसामग्रीसञ्चयार्थम् । वेलाव्याजेन जलवृद्धिमिपेण ।