पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

१२५ बलवन्तं रिपुं दृष्ट्वा नैवाऽऽत्मानं प्रकोपयेत् । बलवद्भिश्च कर्तव्या शरच्चन्द्रप्रकाशता ॥ ३३६ ।। अन्यञ्च- शत्रोविक्रममज्ञात्वा वैरमारभते हि यः । स पराभवमाप्नोति समुद्रष्टिट्टिभाद्यथा ॥३३७ ॥ सञ्जीवक आह–'कथमेतत् ?' । सोऽब्रवीत्- १२. टिट्टिम-समुद्र-कथा कस्मिश्चित्समुद्रतीरैकदेशे टिट्टिभदम्पती प्रतिवसत स्म । ततो गच्छति काले ऋतुसमयमासाद्य टिटिभी गर्भमाधत्त । अथासन्नप्रसवा सती सा टिट्टिभमूचे-'भोः कान्त ! मम प्रसव- समयो वर्तते, तद्विचिन्त्यतां किमपि निरुपद्वं स्थानम् , येन तत्राहमण्डकविमोक्षणं करोमि।' टिट्टिभःप्राह-'भद्रे ! रम्योऽयं समुद्रप्रदेशः, तदत्रैव प्रसवः कार्यः' । साह-'अत्र पूर्णिमादिने समुद्रवेला चरति, सा मत्त- गजेन्द्रानपि समाकर्षति, तद्दरमन्यत्र किञ्चित्स्थानमन्विष्यताम् । तच्छुत्वा विहस्य टिट्टिभः प्राह भने । न युक्तमुक्तं भवत्या, का मात्रा समुद्रस्य यो मम प्रसूतिं दूपयिष्यति । किं न श्रुत भवत्या सैद्धाऽम्बरचरमार्ग व्यपगतधूमं सदा महद्भयदम् मन्दमतिः कः प्रविशति हुताशनं स्वेच्छया मनुज. ॥३३८।। बलवद्भिश्चेति । वलवद्भिस्तु-अधिकवलैरिति यावत् । शरच्चन्द्रप्रकाशता= शैत्य । शान्तिरिति यावत् । अधिकवलेन 'सह क्रोधो न कार्य , किन्तु शैत्य- मेवादरणीयम् । समानैरेव हि युद्धं सन्विश्च युक्ताविति भाव ॥ ३३६ ॥ ऋतुसमयं गर्भाधानसमयम् । टिटिभ पक्षिभेद ('टिटिहरी' ) । प्रसव- समय =प्रसूतिकाल , वर्तते सन्निहितो वर्त्तते। समुद्रवेला चरति-समुद्रजलमि- हायाति, ('ज्वार भाटा' ) । मात्रा सामर्थ्यम् । दूषयिष्यति अपहरिष्यति, प्रसूति सन्ततिम् ॥ रुद्धाम्बरचरमार्ग=निरुद्धपक्षिमार्ग, व्यपगतधूम-ज्वाला- १ 'किलात्मान न कोपयेत्'पाठा..२ 'ज्वालाशतरुद्धाम्बरमपगतधूम सदा महाभयदम्पा०