पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२०

  • पञ्चतन्त्रम् *

[१ मित्र- तद्दर्शिता स्वामिभक्तिर्भवता, गतं चाऽनृण्यं भर्तृपिण्डस्य, प्राप्तश्चोभयलोके साधुवादः । तदपसराऽग्रतः, येनाऽहमपि स्वा- मिनं विज्ञापयामि। तथाऽनुष्ठितेशृगालः सादरं प्रणम्य प्रोवाच- 'स्वामिन् ! मां भक्षयित्वाऽद्य प्राणयात्रां विधाय ममोभयलोक- प्राप्तिं कुरु । उक्तञ्च- स्वाम्यायत्ताः सदा प्राणा भृत्यानामर्जिता धनैः । यतस्तैतो न दोपोऽस्ति तेपां ग्रहणसम्भवः' ॥ ३१८॥ अथ तच्छ्रुत्वा द्वीप्याह-भोः ! साधूक्तं भवता । पुनर्भवा. नपि स्वल्पकायः, स्वजातिश्च-नखायुधत्वादभक्ष्य एव । उक्तञ्च- नाऽभक्ष्यं भक्षयेत्प्राज्ञः प्राणैः कण्ठगतैरपि विशेपात्तदपि स्तोकं लोकद्वयविनाशकम् ॥ ३१९ ।। तद्दर्शितं त्वयाऽऽत्मनः कौलीन्यम् । (अथवा) साधु चेदमुच्यते- एतदर्थ कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम् । आदिमध्यावसानेपु न ते गच्छन्ति विक्रियाम् ।। ३२० ।। तद्पसराग्रतः, येनाहमपि स्वामिनं विज्ञापयामि । तथानु- ष्ठिते द्वीपी प्रणम्य मदोत्कटमाह-स्वामिन् ! क्रियतामद्य मम प्राणैः प्राणयात्रा । दीयतामक्षयो वासः स्वर्गे। मम विस्तार्यतां काकमासमपि-शुना= कुकुरेण । उच्छिष्ट-भुक्त्वा परित्यक्तम् ॥ ३१७ ॥ भर्तृपिण्डस्य राजान्नस्य। गत लब्धम् । ('नमकहलाल')। उभयलोके इह लोके, परलोके च । साधुवाद = साधु काकेन भाषित मिति प्रशंसा । अग्रत अपसर-दूरीभव । ('आगेसे हटो')। यत -धनै , अर्जिता =उपार्जिता मृत्याना प्राणा , अतः स्वाम्यायत्ता =राजाधीना । तेषा-प्राणाना शरीरस्य च, ग्रहण- सम्भव -भृत्यवधजन्य । 'ग्रहणसम्भवे'इति पाठान्तरम् । न दोषोऽस्ति-राज्ञो दोषो नास्ति ॥ ३१८ ॥ द्वीपी-व्याघ्र । पुन =किन्तु । नाभक्ष्यमिति । यदा तदपि अभक्ष्यमपि । विशेषात् विशेषत । स्तोक-यदि स्वल्पं भवेदिति सम्बन्ध ॥३१९ ॥ आदिमध्यावसानेपु-सम्पत्सु विपत्सु च । विक्रिया वि- १ 'प्राप्ता लोकद्वयेऽपि साधुता' । २ 'विज्ञपयामि' । ३ 'तेन नपा० ।