पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदः ]

  • अभिनवराजलक्ष्मीविराजितम् *

तदाकर्ण्य मदोत्कट आह-'यद्येवं तत्कुरुष्व यद्रोचते (इति) । तच्छ्रुत्वा स सत्वरं गत्वा तानाह-भोः ! स्वामिनो महत्यवस्था वर्तते, तरिक पर्यटितेन ? तेन बिना कोऽत्रास्मा- रक्षयिष्यति ?। तद्गत्वा तस्य क्षुद्रोगात्परलोकं प्रस्थितस्य स्वय गत्वाऽs- त्मशरीरदानं कुर्मः । येन स्वामिप्रसादस्याऽनृणतां गच्छामः । उक्तञ्च-आपदं प्राप्नुयात्स्वामी यस्य भृत्यस्य पश्यतः । प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत् ॥ ३१५ ॥ तदनन्तरं ते सर्वे वाप्पपूरितदृशो मदोत्कटं प्रणम्योपविष्टाः तान्दृष्ट्वा मदोत्कट आह-'भोः ! प्राप्तं दृष्टं वा किञ्चित्सत्त्वम् ? अथ तेषां मध्यात्काकः प्रोवाच-स्वामिन् ! वयं तावत्सर्वत्र पर्यटिताः, परं न किंचित्सत्त्वमासादितं, दृष्टं वा । तदद्य मां भक्षयित्वा प्राणान्धारयतु स्वामी, येन देवस्याऽऽश्वासनं भवति, मम पुनः स्वर्गप्राप्तिरिति । उक्तञ्च- स्वाम्यर्थे यस्त्यजेत्प्राणान्भृत्यो भक्तिसमन्वितः । परं स पदमाप्नोति जरामरणवर्जितम् ।। ३१६ ।। तच्छ्रुत्वा शृगाल आह-भोः! स्वल्पकायो भवान्, तव भक्षणात्स्वामिनस्तावत्प्राणयात्रा न भवति, अपरो दोषश्च ताव त्समुत्पद्यते । उक्तञ्च- काकमांसं अ॒नोच्छिष्टं स्वल्पं तदपि दुर्लभम् । भक्षितेनाऽपि किं तेन ? तृप्तिर्येन न जायते ॥ ३१७ ।। 'अरो रथाङ्गदण्डेऽपीति कोश । वहन्ति-प्रचलन्ति ॥ ३१४ ॥ महती अति- विपन्ना । क्षुद्रोगात् बुभुक्षारूपरोगात् । प्रस्थितस्य गन्तुमुद्युक्तस्य । आदिकर्म- णि क्त । प्राप्त लब्धम् । आश्वासन शरीरधारणम् । 'आप्यायनम्' 'भाप्या- यना' इति च क्वचित् पाठ । स्वाम्यर्थे प्रभोरर्थे । म -जरामरणवर्जितं जरा- मृत्युविवर्जितं । ब्रह्मण -पर पद ब्रह्मलोकम् ॥ १६ ॥ दोष =अनौचित्यम् । १'तथोच्छिष्टम्। 2