पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२

  • पञ्चतन्त्रम् *

[१ मित्र- तत्तवोपरि पिङ्गलकोऽयं दुष्टबुद्धिः । कथितं चाऽद्यानेन मत्पुरतश्चतुष्कर्णतया यत्-'प्रभाते सञ्जीवकं हत्वा समस्तमृग- परिवारं चिरात्तृप्तिं नेष्यामि ।' ततः स मयोक्तः-स्वामिन् ! न युक्तमिदं यन्मित्रद्रोहेण जीवनं क्रियते । उक्तञ्च- अपि ब्रह्मवधं कृत्वा प्रायश्चित्तेन शुध्यति । तदर्हेण विचीर्णेन न कथञ्चित्सुहृद्रुहः ।। २९८ ।। ततस्तेनाऽहं सामर्षेणोक्तः-'भो दुष्टबुद्धे ! सञ्जीवकस्ताव- च्छष्पभोजी, वयं मांसाशिनः, तदस्माकं वैरमिति कथं रिपुरु पेक्ष्यते ? । तस्मात्सामादिभिरुपायैर्हन्यते । न च हते तस्मिन्दोषः स्यात् । उक्तञ्च- दत्त्वाऽपि कन्यकां वैरी निहन्तव्यो विपश्चिता। अन्योपायैरशक्यो यो, हते दोपो न विद्यते ।। २९९ ।। कृत्याऽकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः । प्रसुप्तो द्रोणपुत्रेण धृष्टद्युम्नः पुरा हतः ॥ ३०० ।। तदहं तस्य निश्चयं ज्ञात्वा त्वत्सकाशमिहागतः। साम्प्रतं मे नास्ति विश्वासघातकदोषः। मया सुगुप्तमन्त्रस्तव निवेदित अथ यत्ते प्रतिभाति तत्कुरुष्व'-इति । + चतुष्कर्णतया केवलमेकाकिनो ममाग्रे । चिरादिति । सञ्जीवकसम्बन्धात्- चिरमसन्तुष्टं श्वापदकुलमिदानी तृप्ति नेष्यामीत्यर्थ । स =पिझलक । मया दमन- केन। मित्रदोहेण=सुहृद्भूतसञ्जीवकवधचिन्तनादिना। तदणब्रह्महत्यापाप- नाशकेन। विचीर्णेन आचरितेन, प्रायश्चित्तेन-शुध्यति । न कथञ्चित्सुहृड्डह =मित्र- द्रोही कथमपि न शुभ्यतीति सम्बन्ध । 'द्रुह' इति इगुपधज्ञेतिकप्रत्ययान्त ॥२९॥ सामर्षेण सक्रोधेन। रिपु-शत्रु सञ्जीवक । सामादिभि -कपटपूर्णे. सान्त्ववचनादिभिरुपायैर्विश्वास्य । दत्त्वेति । यो रिपुरन्यरुपायैर्न हन्तु शक्यते स कन्यका-स्वपुत्री दत्त्वापि हन्तव्य, जामातृभावमागतो जातविश्वासो रिपुर्हन्तव्य इत्याशय । हते शत्रो हते ॥ २९९ ॥ कृत्येति । क्षत्रियो युद्धे प्रवृत्त सन् , कृत्यमकृत्यं वा न मन्येत, येन केनाप्युपायेन शत्रु हन्याटेवेत्यर्थ ।