पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद]

  • अभिनवराजलक्ष्मीविराजितम् *

१०९. सलजमधोमुखाः क्षणमेकं स्थित्वा मिथः प्रोचुः-भोः ! वाहिता वयमनेन क्षुद्रशृगालेन ! 'तद्वध्यताम्'-इति । सोऽपि तदाकर्ण्य पलायितुमिच्छंस्तत्र स्थान एव सिंहा दिभिः खण्डशः कृतो मृतश्च । अतोऽहं ब्रवीमि-'त्यक्ताश्चाभ्य- न्तरा येन-' इति । तदाकर्ण्य पिङ्गलक आह–'भो दमनक ! कः प्रत्ययोऽत्र विषये यत्स ममोपरि दुष्टबुद्धिः १ ।' स आह-'यदद्य ममाग्रे तेन निश्चयः कृतो यत्प्रभाते पिङ्गलकं वधिष्यामि, तदत्रैष प्रत्ययः,- प्रभातेऽवसरवेलायायारक्तमुखनयनः स्फुरिताऽधरो दिशोऽचलो. कयन्ननुचितस्थानोपविष्टस्त्वां क्रूरदृष्ट्या विलोकयिष्यति, एवं ज्ञात्वा यदुचितं तत्कर्तव्यम् । -इति कथयित्वा सञ्जीवकसकाशं गतस्तं प्रणम्योपविष्टः। सञ्जीवकोऽपि सोद्वेगाकारं मन्दगत्या समायान्तं तमुद्धीक्ष्य सादरतरमुवाच-'भो मित्र । खागतं, चिरादृष्टोऽसि ? अपि शिवं भवतः, तत्कथय येनाऽदेयमपि तुभ्यं गृहागताय प्रयच्छामि? । उक्तञ्च ते धन्यास्ते विवेकज्ञास्ते सभ्या इह भूतले । आगच्छन्ति गृहे येपां कार्यार्थ सुहृदो जनाः ।। २८५ ।। दमनक आह-'भोः! कथं शिवं सेवकजनस्य ? । सम्पत्तयः परायत्ताः सदा चित्तमनिर्वृतम् । स्वजीवितेऽप्यविश्वासस्तेपां-ये राजसेवकाः ॥ २८६ ॥ परस्पर । वाहिता =मृत्यत्व कारिता । क्षुद्रशृगालेन-जम्बुकाधमेन । स = शृगाल । तत्-सिहादिवाक्यम् । प्रत्यय =विश्वासजनकं प्रमाणम् । सः सञ्जीवक । अत्र अस्मिन् मद्वचने । 'प्रत्यय'-इत्यस्य यदितिशेप । अवसरवेलायाम् राजदर्शनोचिते राजसभासमये ('दर्वार' मे )। आरक्तमुखनयन ईषद्रक्तमुखलोचन । स्फुरिताधर =कम्प- मानाऽधरोष्ठ । दिशोऽवलोकयन्-शून्यदृष्टिरितस्ततो विलोकयन् । सोद्वेगाकार= व्याकुल । ('घवडाया हुआ)। शिव-कल्याणम् । अदेयमपि दातुमयोग्यमपि । विवेकज्ञा =उचितानुचितज्ञा । सुहृद सजना , मित्राणि, बान्धवाश्च ॥ २८५ ॥