पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८

  • पञ्चतन्त्रम् *

[१ मित्र- अहं ब्रह्मणाऽद्य स्वयमेव सृष्ट्वाऽभिहितः-'यच्छापदानां मध्ये कश्चिद्राजा नास्ति, तत्त्वं मयाऽद्य सर्वश्वापदप्रभुत्वेऽभिषिक्त ककुद्रुमाभिधः, ततो गत्वा क्षितितले तान्सर्वान्परिपालय' इति । ततोऽहमत्रागतः । तन्मम च्छत्रच्छायायां सर्वैरेव श्वापदैर्वर्तित व्यम् । अनं ककुद्रुमो नाम राजा त्रैलोक्येऽपि सातः । तच्छुत्वा सिंहव्याघ्रपुरःसराः श्वापदाः-'स्वामिन् ! प्रभो ! समादिश'-इति वदन्तस्तं परिवत्रः। तथ तेन सिंहस्याऽमात्यपदवी प्रदत्ता। व्याघ्रस्य शय्या- पालत्वम् । द्वीपिनस्ताम्बूलाधिकार । वृकस्य द्वारपालकत्वम् । ये चात्मीयाः शृगालास्तैः सहाऽऽलापमात्रमपि न करोति । शृगालाः सर्वेऽप्यर्धचन्द्रं दत्त्वा निःसारिताः। एवं तस्य राज्यक्रियायां वर्तमानस्य ते सिंहादयो मृगा- व्यापाद्य तत्पुरतः प्रक्षिपन्ति । सोऽपि प्रभुधर्मेण सर्वेषां प्रविभज्य तान् प्रयच्छति । एवं गच्छति काले कदाचित्तेन सभागतेन दूरदेशे शब्दाय- मानस्य शृगालवृन्दस्य कोलाहलोऽश्रावि । तं शब्दं श्रत्वा पुलकिततनुरानन्दाश्रुपरिपूर्णनयन उत्थाय तारस्वरेण विरोतु मारब्धवान् । अथ ते सिंहादयस्तं तारस्वरमाकर्ण्य शृगालोऽयमिति मत्वा श्वापदा-सिंहाढयो मृगा । अभिहित उक्त । श्वापदप्रभुत्वे-सर्वमृगाधि- पत्ये। छत्रच्छायाया ममाधिपत्य । त्रेलोक्ये स्वर्गभूपातालेषु त्रिष्वपि लोकेषु राजाहं सवृत्त इति सम्बन्ध । समादिश-आजापय यत्कर्त्तव्यम् । परिवत्रु सम- न्ततस्तमावृत्य निषेदु । तेन-ककुटुमेन । शय्यापालत्व-रात्रिरक्षकत्वम् । आत्मीया स्वजातीया । प्रभुधर्मेण स्वामित्वेन । तान् मृगान् । प्रयच्छति ददाति । सभागतेन सर्वश्वापदमण्डलपरिगतेन । पुलकिततनु -रोमाञ्चितशरीर । तारस्वरेण-उच्चै । विरोतुं शब्दं कर्तुम् । तारस्वरं दीर्घ शृगालशब्दं । मिथ , 'चण्डरवाभिध'। २ 'स्थगिकाधिकारः'पान की डिब्बी देना । ३ 'आस्थानगतेन'। पाठा०