पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

w 3

  • पञ्चतन्त्रम् *

[१ मित्र- शक्रेण विहितं दुर्ग प्रभावाद्विश्वकर्मणः ।। २५३ ॥ तेनापि च वरो दत्तो 'यस्य दुर्ग स भूपतिः । विजयी स्या'.त्ततो भूमौ दुर्गाणि स्युः संहस्रशः ॥२५५॥ दंष्ट्राविरहितो नागो मदहीनो यथा गजः । सर्वेपां जायते वश्यो दुर्गहीनस्तथा नृपः ।। २५५ ।। तच्छुत्वा भासुरक आह-भद्र ! दुर्गस्थमपि दर्शय तं चौर- सिंह,-येन व्यापादयामि । उक्तञ्च- जातमात्रं न यः शत्रु रोगं च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धि प्राप्य स हन्यते ॥ २५६ ॥ तथा च-उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वय॑न्तावामयः स.च ॥ २५७ ॥ अपि च-उपेक्षितः क्षीणवलोऽपि शत्रुः प्रमाददोपात्पुरुपैर्मदान्धैः । साध्योऽपि भूत्वा प्रथमं ततोऽवसावसाध्यतां व्याधिरिव प्रयाति ।२५८॥ , शक्रण इन्द्रेण । विश्वकर्मण =देवशित्पिन । प्रभावान-साहाय्यात् ॥२५३॥ तेन-इन्द्रेण । वरमेवाह-यस्येति । तत =इन्द्रवरप्रभावात् । स्यु -अभूवन् ॥ २५४ ॥ दंष्ट्राविरहित =उत्पाटितविषदन्त । नाग =सर्प ॥ २५५ ॥ वृद्धि प्राप्य प्रबुद्धेन । तेनैव-शत्रुणा, रोगेण च । महावलोपि । स =रोग- शत्रूपेक्षकः ॥ २५६ ॥ उत्तिष्टमान =वर्धमान । परः शत्रु । पथ्यं-हितम् । शिष्ट विचक्षणः । आमय =रोग । सः शत्रुश्च । वय॑न्तौ वर्धमानों। समा= तुल्यौ । आम्नातौ कथितौ ॥ २५७ ।। मन्दाधैः वलदर्पिते । पुरुपैः-प्रमाददोपात् अनवधानमूलान्माात् । उपेक्षित =अकृतप्रतीकारः । श्रीणवलोऽपि निर्वलोऽपि । शत्रु:-प्रथमम् आदी। साध्यो भूत्वापि-उपामसाध्यता भजमानोऽपि। उपायसाध्योऽपि । असा-उपेक्षितो व्याधिरिव क्रमगः-असाध्यता प्रयाति-भजते। माध्यापि हि व्याधिरुपेक्षितोऽ. साध्यो भवत्येव ।। २५८ ॥ 1 १. 'दुर्गाणि सुवहून्यपि ।'शत्रूनेकोऽपि हन्यात्स क्षत्रियान्' पा० । २. 'गन्नभिमुखो वह्नौ नाशं याति पतङ्गवत्' ।