पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदः]

  • अभिनवराजलक्ष्मीविराजितम् *

९५ इति। ततोऽहं तेनाऽऽदिष्टः स्वामिसकाशमभ्यागतः। एत- द्वेलाव्यतिक्रमकारणम् । तत्र स्वामी प्रमाणम् ।' तच्छ्रुत्वा भासुरक आह-'भद्र ! यद्येवं तत्सत्वरं दर्शय मे तं चौरसिंह, येनाहं मृगकोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि । उक्तञ्च-भूमिर्मित्रं हिरण्यं च विग्रहस्य फलत्रयम् । नास्त्येकमपि योपां न तं कुर्यात्कथञ्चन ।। २४९ ॥ यत्र न स्यात्फलं भूरि यत्र च स्यात्पराभवः । न तत्र मतिमान्युद्ध समुत्पाद्य समाचरेत् ।। २५० ।। शशक आह-स्वामिन् । सत्यमिदम्-स्वभूमिहेतोः, परि- भवाच्च युध्यन्ते क्षत्रियाः। परं स दुर्गाश्रयः, दुर्गानिष्कम्य वयंतेन विष्कम्भिताः। ततो दुर्गस्थो दुःसाध्यो भवति रिपुः। उक्तञ्च- न गजानां सहस्रेण न च लक्षण वाजिनाम् । तत्कृत्यं साध्यते राज्ञां दुर्गेणैकेन यद्भवेत् ॥ २५१ ।। शतमेकोऽपि सन्धत्ते प्राकारस्थो धनुर्धर । तस्माहुर्ग प्रशंसन्ति नीतिशास्त्रविचक्षणाः ॥ २५२ ।। पुरा गुरो. समादेशाद्धिरण्यकशिपोर्भयात् । - विश्वासस्थाने स्वोक्तिप्रत्यायनार्थम् । धृत्वा स्थापयित्वा। चौरसिहं-दुष्टं सिंहा- धम । मृगकोप-मृगोपरि वर्धमानं कोपम् । तस्य दुष्टसिहस्य । भूमिः यामराज्यादिकम् । मित्रं-मित्रानुरजनं, मित्रार्जन वा। हिरण्यं= धनम् । विग्रहस्य- युद्धस्य । एषाम् एषा मध्ये । तं-युद्धम् ॥२४९॥ यत्र भूरि फलं युद्धे न स्यात् , यत्र च युद्धे पराभव =पराजयो निश्चित स्यात्, तत्र तस्मिन्नवसरे मतिमान्-समुत्पाद्य-स्वयमात्मनाऽग्रसरो भूत्वा युद्ध न समाच- रेत् । किञ्च-स्वत्पस्य कृते बलिना सह युद्ध नाचरेदिति भाव ॥२५०॥ परिभवात् अपमानाच्च । क्षत्रिया =मानिन क्षत्रिया । स प्रतिपक्षी सिंह । दुर्गाश्रय =दुर्गनिवासी । विष्कम्भिता =अवरुद्धा (रोके गए)। सन्धत्ते लक्ष्यता नयति । प्राकारस्थ =दुर्गभित्तिप्रान्तस्थ ॥ २५२ ॥ गुरो =वृहस्पते । १, 'यत्कृत्य साध्यते राज्ञा दुर्गेणैकेन सिध्यति' पा० ।