पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- प्रजानां पालनं शस्यं स्वर्गकोशस्य वर्धनम् । पीडनं धर्मनाशाय पापायाऽयशसे स्थितम् ॥ २४०॥ गोपालेन' प्रजाधेनोर्वित्तदुग्धं शनैः शनैः । पालनात्पोपणाद्राह्यं न्याय्यां वृत्तिं समाचरेत् ॥२४१।। अजामिव प्रजां मोहाद्यो हन्यात्पृथिवीपतिः । तस्यैका जायते तृप्तिन द्वितीया कथञ्चन ।। २४२ ॥ फलार्थी नृपतिर्लोकान्पालयेद्यत्नमास्थितः । दानमानादितोयेन मालाकारोऽङ्कुरानिव ॥ २४३ ॥ नृपदीपो धन-स्नेहं प्रजाभ्यः संहरन्नपि । आन्तरस्थैर्गुणैः शुभैर्लक्ष्यते नैव केनचित् ॥ २४४ ।। यथा गौर्दुह्यते काले पाल्यते च तथा प्रजाः । सिच्यते चीयते चैव लता पुष्पफलप्रदा ।। २४५ ॥ पायेन च । मथितापि-भ्रमिता, शनै -शनैराकान्ता च ! स्क्षापि-शुष्का, नि स्नेहा, कठोरापि । भूमि =वसुधा। फलं-धनादिक । प्रयच्छति ददाति । अरणी मन्थनकाष्ठ-हुताशनमिव । अरणियथाविधि मथ्यमाना शुष्काऽपि फलं वहिं- ददात्येव ॥ २३६॥ शस्यं स्तुत्यं । परलोके-स्वर्गस्य। इह-अस्मिन् लोके । कोशस्य धनस्य च, वर्धन-संवर्धन । प्रजाना पीडनं तु रानो-धर्महानि-पापम् , अकीर्ति च कुरुते इति भाव ॥ २४० ॥ गोपालेन-राज्ञा, धेनुरक्षकेण च । प्रजास्पाया धेनोः, वित्तमेव दुग्धं । न्याव्याम्-उचिता, धाञ्च ॥ २४१॥ अजा-छागी । एका-एकवारमेव । द्वितीया पुनरपि । 'अजा इव प्रजा' इत्यपि पाठ ॥२४॥ फलार्थी नृपति. यत्नमास्थित. सन्-मालाकारोऽहरानिव-दानमानादितोयेन- लोकान् प्रजा , पालयेत् ॥ २४३ ॥ नृपदीप -आन्तरस्थैः-स्वात्मस्थैः । 'अन्त- रस्थै' रित्यपि पाठः। शुभ्र गुणै =दानमानादिभि., वर्तितन्तुभिश्च [ 'वत्ती' ] 1 धनरूपं स्नेह-तैलं, धनं स्नेहमिव वा। संहरन्नपि गृहन्नपि । केनचिदपि न लक्ष्यते ने जायते ॥ २४४ ॥ चीयते-चयनकाले पुष्पाणि फलानि च तस्या गृह्यन्ते। (समय पर फूल चुने जाते है ) ॥ २४५ ॥