पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदः]

  • अभिनवराजलक्ष्मीविराजितम् *

९१ करटक आह-'कथमेतत् ?' | स आह- ८. सिंह-शशककथा कस्मिंश्चिद्वने भासुरको नाम सिहः प्रतिवसति स्म । अथाऽ सौ वीर्यातिरेकान्नित्यमेवानेकान्मृगशशकादीन् व्यापादयन्नो. परराम। अथान्येधुस्तद्वनजाः सर्वे सारङ्गवराहमहिषशशकादयो मिलित्वा तमभ्युपेत्य प्रोचुः-स्वामिन् ! किमनेन सकलमृगवधेन नित्यमेव, यतस्तवैकेनापि मृगेण तृप्तिर्भवति, तक्रियताम- स्माभिः सह समयधर्मः। अद्यप्रभृति तवाऽत्रोपविष्टस्य जाति- क्रमेण प्रतिदिनमेको सृगो भक्षणार्थ समेष्यति। एवं कृते तव प्राणयात्रा क्लेशं विनापि भविष्यति, अस्माकं च पुनः सर्वोच्छेदो न स्यात् । तदेष राजधर्मोऽनुष्ठोयताम् । उक्तञ्च- शनैः शनैश्च यो राज्यमुपभुते यथाबलम् । रसायनमिव क्ष्मीपः स पुष्टिं परमां व्रजेत् ।। २३८ ॥ विधिना मन्त्रयुक्तेन रूक्षापि मथितापि च । प्रयच्छति फलं भूमिररणीव हुताशनम् ॥ २३९ ।। बिलमें )। प्रसारितभोग =सफटाटोप सज्जितशरीर । मन्दोन्मत्त =वलदर्पित । शशकेन सामान्येन मृगभेदेन । [ 'सुसिया' 'खरहा']। निपातित-मारित ॥ २३७ ॥ वीर्यातिरेकात अतिदर्पात् । व्यापादयन् मारयन्नपि । अन्येयु अन्यस्मिन्दिने ['किसी दिन' ] । सारङ्गा-वराहा -सूकरा, महिषा =लुलाया । ( भैसा )। त= सिंहम्। समयधर्म =प्रतिज्ञावन्ध, [ 'वचन देना' 'शर्त'] । उपविष्टस्य इहैव स्थितस्यापि । जातिक्रमेण-मृगवराहमहिषादिजातिपरिपाट्या । मृग पशु । प्राणयात्रा-जीवननिर्वाह -भोजनम् । सर्वोच्छेद =सर्वनाश । एष =वष्यमाण । यथावलं-शक्त्यनुसारेण। रसायनं जरामृत्युविध्वसकौषधमिव । क्ष्माप =राजा। पुष्टि दाय॑म् , बलवत्ताञ्च । परमाम-उत्कृष्टतमाम् ॥ २३८ ॥ मन्त्रयुक्तेन विधिना-समन्त्रेण शास्त्रदृष्टेन विधिना,सुमन्त्रशालिना सामाद्य- १क्ष्माभृत्' इति, 'प्राश' इति च पा० ।