पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- वायस आह-'भद्र! तत्कथय कथं स दुष्टसो वधमुपैष्यति?। शृगाल आह-'गच्छतु भवान्कञ्चिन्नगरं राजाधिष्ठानम् । तत्र कस्याऽपि धनिनो राजाऽमात्यादेःप्रमादिनः कनकसूत्रं हारं वा गृहीत्वा तत्कोटरे प्रक्षिप. येन सर्पस्तद्रहणेन वध्यते।' अथ तत्क्षणात्काकः काकी च तदाकात्मेच्छयोत्पतितौ। ततश्च काकी किञ्चित्सरः प्राप्य यावत्पश्यति, तावत्तन्मध्ये कस्यचिद्राज्ञोऽन्तःपुरं जलासन्न (शिला) न्यस्तकनकसूत्रं मुक्ता- हारवस्त्राभरणं जलक्रीडां कुरुते। अथ सा वायसी कनकसूत्र. मेकमादाय स्वगृहाभिमुखं प्रतस्थे । ततश्च कञ्चुकिनो वर्षवराश्च तन्नीयमानमुपलक्ष्य गृहीतलगुडाः सत्वरमनुययुः। काक्यपि सर्पकोटरे तत्कनकसूत्रं प्रक्षिप्य सुदूरसवस्थिता । अथ-यावद्राजपुरुपास्तं वृक्षमारुह्य तत्कोटरमवलोकयन्ति, तावत्कृष्णसर्पः प्रसारितभोगस्तिष्ठति । ततस्तं लगुडप्रहारेण हत्वा कनकसूत्रमादाय यथाभिलषितं स्थानं गताः। वायस. दम्पती अपि ततः परं सुखेन वसतः। अतोऽहं ब्रवीमि-'उपायेन हि यत्कुर्यात्-' इति । ® | तन्न किञ्चिदिह वुद्धिमतामसाध्यमस्ति । उक्तञ्च- यस्य बुद्धिर्बलं तस्य निर्बुद्धस्तु कुतो बलम् । वने सिहो मदोन्मत्तः शशकेन निपातितः ।। २३७ ।। अलं-न प्रयोजनम् । राजाधिष्ठानं राजाधिष्टितं । धनिन =श्रेष्टिन । प्रमादिन = प्रमत्तस्य, असावधानस्य । कनकसूत्र-स्वर्णदोरकं । ['सोनेका हार', कण्ठी, 'डोरा' ] । हार-मौक्तिकमाला । तत्कोटरे सर्पविले । तद्हणेन आभरणचौर्येण । आत्मेच्छया स्वेच्छया। काचिहिशम् । तन्मध्ये सरोवरमध्ये। अन्त पुर-शुद्धान्त- स्त्रीजन । जलासन्ने देशे न्यस्त कनकसूत्र येन् तत्-जलनिकटस्थशिलादि- स्थापितकनकदोरकाभरणम् । मुक्तानि स्थापितानि मुक्ताहारवस्त्राभरणानि येन तत् । जलक्रीडा-सरोवरावगाहनकेलिम् । वायसी काकी। कञ्चुकिनो वर्पवराश्च राजान्त पुररक्षका । तत्-कनकदोरकं । सर्पकोटरे सर्पनिवासकुहरे ( सापके १ 'पश्य चाऽतिबल. सिंहः शशकन निपातित' पा ।