पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद]

  • अभिनवराजलक्ष्मीविराजितम् *

-इति विचिन्त्य तं पृष्ट समारोप्य तां वध्यशिलामुद्दिश्य प्रस्थितः।। कुलीरकोऽपि दूरादेवाऽस्थिपर्वतं शिलाश्रयमवलोक्य मत्स्यास्थीनि परिज्ञाय तमपृच्छत्-माम ! कियहरे स जला- शयः ?, मदीयसारेणाऽतिश्रान्तस्त्वम् , तत्कथय ? ।' सोऽपि मन्दधीर्जलचरोऽयं स्थले न प्रभवतीति मत्वा सस्मितमिदमाह-'कुलीरक ! कुतोऽन्यो जलाशयः१, मम प्राण. यात्रेयम् , तस्मात्स्मर्यतामात्मनोऽभीष्टदेवता वामप्यस्यां शिलायां निक्षिप्य भक्षयिष्यामि ।' इत्युक्तवति तस्मिन् तेन स्ववदनदंशद्वयेन मृणालनालधवलायां मृदुग्रीवायां स गृहीतो मृतश्च । अथ स तां बकग्रीवां समादाय शनैः शनैस्तजलाशयमास. साद । ततः सर्वैरेव जलचरैः पृष्टः-'भोः कुलीरक ? किं निवृत्त स्त्वम् ?, स मातुलोऽपि नायातः १, तत्कि चिरयति ?, वयं सर्वे सोत्सुकाः कृतक्षणास्तिष्ठामः । एवं तैरभिहिते कुलीरकोऽपि विहस्योवाच-सूर्खाः! सर्वे जलचरास्तेन मिथ्यावादिना वञ्चयित्वा नातिदूरे शिलातले प्रक्षिप्य भक्षिताः । तन्मयाऽऽयुः शेषतया तस्य विश्वासघातक- स्याभिप्रायं ज्ञात्वा ग्रीवेयमानीता । तदलं संभ्रमेण, अधुना सर्व- जलचराणां क्षेमं भविष्यति।' अतोऽहं ब्रवीमि-भक्षयित्वा बहू- न्मत्स्यान्-' इति ।-8 अस्थिपर्वत-महान्तमस्थिराशि । शिलाश्रय-शिलोपरिस्थितम् । स =बक । मन्दधी -मूढ । स्थले भूमौ । न प्रभवति नापकर्तुं समर्थ । सस्मित-समन्द- हासम् । प्राणयात्रा-जीवनोपाय । अभीष्टठेवता-उपास्यठेवता। 'परलोकसद्गतये' इति शेष । तस्मिन्-चके। स्ववदनदंशद्वयेन स्वमुखसन्दंशयुगलेन । मृणाल- नालधवलाया=विसतन्तुस्वच्छाया। मृदुग्रीवाया कोमलकण्ठनाले।गृहीत =दष्ट । कि- निवृत्त =परावृत्त । स मातुल =वक । चिरयति-विलम्वते । कृतक्षणा निवृत्त- सर्वकार्या, यानोन्मुखा , सावधानाश्च । सम्भ्रमेण औत्सुक्येन व्यग्रतया वा ।