पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद]

  • अभिनवराजलक्ष्मीविराजितम् *

3 अन्यञ्च-सर्पयुक्ते गृहे वासो मृत्युरेव न संशयः । यद्ामान्ते वसेत्सर्पस्तस्य स्यात्प्राणसंशयः ॥ २३०॥ स आह-'नात्र विपये स्वल्पोऽपि विषाद कार्यः, नूनं स लुब्धो नोपायमन्तरेण वध्यः स्यात् । उक्तञ्च- उपायेन जयो यादृग्रिपोस्ताहड्न हेतिभिः । उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥ २३१ ।। तथा च-भक्षयित्वा बहून्मत्स्यानुत्तमाऽधममध्यमान् । अतिलौल्याद्वक. कश्चिन्मृतः कर्कटकग्रहात् ।। २३२ ।। तावूचतुः-'कथमेतत् ?' । सोऽब्रवीत्- ७. बक-कर्कटककथा। अस्ति कस्मिश्चिद्वनप्रदेशे नानाजलचरसनाथं महत्सरः। तत्र च कृताश्रयो वक एको वृद्धभावमुपागतो मत्स्यान्व्यापाद. यितुमसमर्थः। ततश्च क्षुत्क्षामकण्ठ सरस्तीर उपविष्टो मुक्ता- फलप्रकरसदृशैरथुप्रवाहैर्धरातलमभिषिञ्चन्रुरोद। एकः कुली- रको नानाजलचरसमेतः समेत्य 'तस्य दुःखेन दुःखितः सादर- मिदसूचे 'माम ! किमद्य त्वया यथापूर्वमाहारवृत्तिर्नानुष्ठीयते ?, केवलमश्रुपूर्णनेत्राभ्यां सनिःश्वासेन स्थीयते ! । यस्य-पुस । नदीतीरे-सरित्तटे। क्षेत्र केदार । भार्या पत्नी च। परेण जारेण। सङ्गता संसक्ता । ससर्प-सर्पवति गृहे च यस्य निवास, तस्य पुंस कथ केन प्रकारेण । निर्वृति =सुखम् । न केनाऽपि प्रकारेणेत्यर्थ -॥२२९॥ विषाद =शोक । लुब्ध -काकशावभक्षणलुब्ध । स =सर्प । हेतिभि =शस्त्रै । अल्पकाय. निर्व- लोऽपि । शूरै चलवद्भि । न परिभूयते न पराजीयते ॥२३१॥ कश्चिदक - उत्तमाधममध्यमान्-वालयुववृद्धान् , मत्स्यान भक्षयित्वापि अतृप्त सन्-लौल्यात् =अतिलोभाच्चाञ्चल्याच्च, कर्कटकग्रहात्-कर्कटकपीडनात् । मृत =पञ्चत्वं जगाम ॥२३२॥ तत्र-सरसि । कृताश्रय =कृतवसति । वृद्धभावं-वार्धक्यं । मत्स्यान् स्वभक्ष्यभूतान्मीनान् । क्षुत्क्षामकण्ठ =चुभुक्षाक्षीणकण्ठ । मुक्ताफलप्रकरसदृशैः= .. मौक्तिकपङ्गितुल्यै ।