पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४

  • पञ्चतन्त्रम् *

[१.मित्र- तया सार्धं पञ्चप्रकारं जीवलोकसारं विषयसुखमनुभवन्कालं निनाय । अत सुष्टुच्यते-'सुप्रयुक्तस्य दम्भस्य-' इति । * तच्छुत्वा करटक आह-भद्र ! अस्त्येवं, परं तथापि महन्मे भयं,-यतो बुद्धिमान्सञ्जीवको रौद्रश्च सिंहः । यद्यपि ते वुद्धि प्रागल्भ्यं तथापि त्वं पिङ्गलकात्तं वियोजयितुमसमर्थ एव ।' दमनक आह-'भ्रात ! असमर्थोऽपि समर्थ एव । उक्तञ्च- उपायेन हि यत्कुर्यात्तन्न शक्यं पराक्रमैः । काक्या कनकसूत्रेण कृष्णसर्पो निपातितः ।। २२८ ।। करटक आह-कथमेतत् ? । सोऽब्रवीत्- ६. काकी-कनकसूत्र-कृष्णसर्पकथा । अस्ति कस्मिंश्चित्प्रदेशे महानन्यग्रोधपादपः। तत्र वायस- दम्पती प्रतिवसतः स्म। अथ तयोः प्रसवकाले वृक्षविवरान्नि- पक्रम्य कृष्णसर्पः सदैव तदपत्यानि असञ्जातक्रियाण्येव भक्षयति । ततस्तौ निर्वेदादन्यवृक्षमूलनिवासिनं प्रियसुहृदं शृगालं गत्वो- चतुः-'भद्र ! किमेवंविधे सजाते आवयोः कर्तव्यं भवति । एवं तावदुष्टात्मा कृष्णसर्पो वृक्षविवरान्निर्गत्याऽऽवयोर्वालकान्भक्ष- यति । तत्कथ्यतां तद्रक्षार्थ कश्चिदुपायः? यस्य क्षेत्र नदीतीरे भार्या च परसङ्गता। ससर्पे च गृहे वासः कथं स्यात्तस्य निर्वृत्तिः ? ॥२२९।। साहसप्रसन्नचेतसा । पञ्चप्रकारं पञ्चेन्द्रियग्राह्य । विषयोपभोगान् भुजान. सुखेन कालं निनायेत्यर्थः । सञ्जीवकः-तन्नामा वृषभः । रौद्र.-क्रूर । तं वृषभम् । कनकसूत्रेण स्वर्णदोरकद्वारा। ('सोनेका डोरा')। निपातित =घातितः ॥२२८॥ न्यग्रोधपादपा-वटतरु । वायसदम्पती काकमिथुनं । तदपत्यानि काका- र्भकान् । असञ्जातक्रियाणि-उत्पतितुं गन्तुचाऽसमर्थान्येव । निर्वेदात् गोकात् । अन्यवृक्षमूलनिवासिनम् वृक्षान्तरमूलगह्वरनिवासिनम् । एवंविधे-सर्पकृतापत्य- विनाशरूपे व्यतिकरे । ( विपत्ति में) एवन्तावत्-एवंरीत्या किल। तद्रक्षार्थ ततः कृष्णसात्स्ववत्सरक्षार्थम् ।।