[१]म्भाच्च । निरुपाधिसम्बन्धबलेन द्वयणुकस्य कार्यद्रव्योपादानकत्वसिद्धिरस्त्विति चेत् । न । महदुपादानकत्वस्यापि सिद्धिप्रसंगात् । तत्र य उपाधिः स इहापि भविष्यतीति । बाधेन
न्यायलीलावतीकण्ठाभरणम्
तदाऽवयवावयविभ्यामेकजातीयमारप्स्यत इत्यर्थः । महत्कार्ये कार्यद्रव्यारभ्यमेवेति व्याप्तिबलाद् व्द्यणुकसिद्धिरिति शङ्कते निरुणधीति । महत्कार्ये महदारभ्यमेवेत्यपि व्याप्तिरेवेति घणुकसिद्धिरेवेति परिहरति नेति । बाधेनाऽत्रेति । महत् महदुपादानकमेवत्यत्र पक्षेतरत्य-
न्यायलीलावतीप्रकाशः
यवावयविनौ जन्येते इत्यनेनैकजातीयमवयवावयविभ्यां न जन्यत इत्यत्र व्यभिचारो नोद्भावितः । अत्राहु: - एकजातीयेन यद्यवयवावयविनौ जन्येते तदाऽवयवारम्भ के णावयविजातीयमारभ्यत इत्यपि सिघ्घ तीति भवति व्यभिचारः । ननु विपक्षबाधकामावेऽपि निरुपाधिस हचारदर्शनव्यभिचारादर्शनाभ्यां व्याप्तिर्गृह्यत इत्याह निरुपाधीति । अतिप्रसङ्गान्न ततो व्याप्तिग्रह इस्याह महदिति । नहि बाधेनैवोपाधि-
न्यायलीलावतीप्रकाशविवृतिः
स्थः । यद्यप्यपकर्षपदं व्यर्थ, तथापि विशिष्टाभावत्वेनाव्यर्थता । क्वचि दपकर्षपद शुन्यः पाठः । हेतौ च परिभाणारम्भके प्रचयाख्य संयोगे सर्वोत्कृष्टे सर्वापकृष्टे च विद्यमाने असाधारणधर्मे स्वनिरूपितोत्कर्षापक र्षयोरप्रसिघ्घा साध्याग्रहेण व्याप्तिग्रह इत्युकृष्टापकृष्टत्वं विशेषणम् । न च परिमाणारम्भकवृत्तित्वविशेषणं व्यर्थमिति वाच्यम् । अवयविगुरुत्वादौ व्यभिचारवारकत्वात्, सर्वापकृष्टावयविगुरुत्वे मानाभावात्, समाहारगुरुत्वस्यैव तुलादिपरिच्छेद्यत्वात्, अवयविगुरुत्वस्य सर्वस्य तुल्यरूपत्वात्, उत्कर्षापकर्षयोश्च परमाणुगुरुत्वाक्षेया तत्रापि सम्भवात्, सुवर्णतूलक योर्गुरुत्वविशेषानुभवात् । वस्तुत उत्कृष्टापकृष्टपरिमाणं तदारम्भकवृत्ति सामान्यत्वादिति हेतुः । परिमाणे उत्कृष्टेत्यादिविशेषणान्न प्रचयाख्य संयोगवृत्तिजातिविशेषे व्यभिचारः । अत एव गुरुत्वतारतम्यविशेषेऽपि न व्यभिचारः, परिमाणारम्भकत्व घटितहेतोस्तत्राभावात् । आरम्भकत्वं च समवायिकारणत्वमतो न द्रव्यवृत्तिजातावप्रसिद्धिनिबन्धनव्याप्तिग्रहाभावाद्दोष इति संक्षेपः । धणुकोपादा-
- ↑ तुल्यताप्रसङ्ग्रः इति नास्ति विपक्षे बाधकम् इति मु०प्र० पाठः ।