सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१३
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न्थायलीलावतीकण्ठाभरणम्

येन समं ज्ञानमेव सम्बन्धः, ज्ञानस्य तु सतस्तद्दीयता यन्निबन्धना स्वभावभेदो विषयित्वमिति । विवक्षितमिति । व्यवस्थापकमिति शेषः । संस्कारत्वतुल्यन्याय तथा शङ्कितमदृष्टत्वस्य जातित्वं परिहरति न

न्यायलीलावतीप्रकाशः

विषयतैव तज्जन्येच्छाविषयता, किंवा तद्विषयज्ञानजन्यत्वमेवेच्छायास्तद्विषयत्वम् ? नाद्यः, ज्ञाननाशे सति इच्छाया निर्विषयतापत्तेः । नान्त्यः, ज्ञानानवगमेऽव्यवगम्यमानत्वात्, जनकज्ञानल्यानियतविषय त्वेऽपि इच्छाया नियतविषयत्वाच्च । अत्राहुः - पथा घटादिना स्वसम्बन्धे समवायस्याभेदेनैव सम्बन्धरूपत्वं रूपादिसम्बन्धे च तद्भेदेन, तथा ज्ञानस्यापि घटादिना स्वसम्बन्धे सम्बन्धरूपत्वमभेदेन इच्छादिसम्बन्ध रूपत्वं तु भेदेन, तथाप्ययं पौर्वापर्य सम्बन्धोऽनुगतधर्मगर्भो, न च घटेच्छा त्वादिकं सामान्य महित । घटगोचरेच्छात्वे नैव तत्त्वेऽन्योन्याश्रय इति चेत् । न, नहच्छिाकारणत्वमेव ज्ञानस्येच्छासम्बन्धरूपत्वं, किन्तु ज्ञानस्वरूपमेव तथा, नियामको हि जन्यजनकभावः । न चैवं जनकज्ञानापगमे सन्नपि प्रयत्नो निर्विषयः स्यात्, तथाच प्रवृत्त्यनियमः स्यादिति वाच्यम् । तथापि तूं करोमि नतु वेझीत्यनुभवेन ज्ञानापगमात । ज्ञानान्तरं तत्रोत्पद्यत इति चेत्तुल्यम् । तथापि प्रयत्नजनकं ज्ञानं नास्ति, तकञ्च सम्बन्धरूपमिति चेन्न ।

न्यायलीलावती प्रकाशविवृतिः

स्यैव सविषयत्वमिच्छासविषयत्वव्यवहारप्रयोजकं परम्परासम्बन्धेन, सविषयज्ञानस्य जन्यत्वमेव साक्षात्सम्बन्धेन वा तथेति विकल्पार्थः । इच्छायाः सविषयकत्वानभ्युपगमेन यथाश्रुतेऽसङ्गतेः । ज्ञाननाश इति । ज्ञानांत्मिकैव ज्ञानविषयतेति तन्नाशकाले इच्छायाः सविषयकत्वव्यवहारानुपपत्ते रित्यर्थः । अनियतविषयत्वेपीति । ज्ञानस्य सिद्धासिद्धविषय- त्वेऽपीच्छाया: सिद्धविषयत्वनियमादिति । यथा घटादिनेति । न चैवमिच्छाया: स्वाभाविकमेव सविषयत्वमिति वाच्यम् । जनकीभूतज्ञानरूपोपाधिकत्वेन भावनायामिव सविषयत्वव्यवहारस्य सोपाधिकत्वात् । ननु जनकीभूतज्ञानत्वेन सम्बन्धता जनकता च घटेच्छात्वजात्यवच्छिन्नं प्रति वा घटविषयकेच्छात्वरूपोपाध्यवच्छिन्नं प्रति वा न सम्भवत्येवेत्याशङ्कते तथाप्ययमिति | नियामिका जनकता, सम्बन्धत्वं च तत्तज्ज्ञानव्यक्तेरिव विषय इवेच्छायामपीति परिहरति नहीच्छेति ।