पत्तेः । न च तत्र गुणत्वापलापः, तत्र विशेष्यस्योक्तत्वात् । यदि
त्वसत्यपि विशेषमानेऽन्यथा सिद्धसम्बेदनं सामान्यमास्थीयते
ततो भूतत्वमूर्तस्वमसक्तौ जातिसङ्करापत्तिरिति बोद्धव्यम् ।
किंशुक कुसुमादिकार्यस्य वसन्तादिकाल विशेष प्रस्तुतस्त्रे निश्चिते अन्येषामपि कार्याणां कार्यत्वेन स्वरूप पूर्वकालजन्यस्वानुमानात् । एवं कुङ्कुमादेर्देश विशेषजन्यत्वेनान्यत्रापि देशविशेषजन्यत्वानुमानात् । देशकालव्यवहारविषयाणामुपाधीनां कार्य-
न्यायलीलावतीकण्ठाभरणम्
निबन्धना भूतत्वपरिभाषापीति भूतत्वं न सामान्यमित्याह नच भूतत्वमिति । जातिविशेषः । विशेषस्येति । संयोगविभागोभयकारणातिरिक्त्ते या सामान्यसमानाधिकरणता सा जात्यवच्छिन्नेति विशेषस्येत्यर्थः ।
दिक्कालयोः सर्वोत्पत्तिमन्निमित्तकारणत्वमुपपादयितुमाह किं शुकेति । किंशुकस्य कुंकुमस्य च कालविशेषदेशविशेषजन्यता अन्वयव्यतिरेकगम्यैवातस्तदुभयडष्टान्ते नान्यत्रापि कार्य्ये तदुभयजन्यत्वमनुमेयमित्यर्थः । ननुक्तमुपाधीना मेवान्वयव्यतिरेकौ यदि तदा दिक्कालौ न स्यातां, तदा कार्याणि न स्युरिति तर्कितस्य व्यतिरेकाधीनः कारणत्वग्रह इत्यर्थः । ननु तर्कितोपि व्यतिरेकोऽतिप्रसञ्जक-
न्यायलीलावतीप्रकाशः
अपरिमितेपीति । अवच्छिन्न परिमाणशुन्येपीत्यर्थः । न च भूतत्वमिति । सामान्यमिति शेषः । अर्थत्ववदिति । द्रव्यादित्रये यथार्थत्वं न जातिरित्यर्थः । उपाधीति । बाह्यै कै केन्द्रियग्राह्यजातीय विशेषगुणवश्वेनेत्यर्थः । विशेषस्थेति । गुणत्वसाधकस्येत्यर्थः । जातौ बाधके सत्येवोपाधित्वमिति स्थिते जातिबाधकमाह यदि त्विति ।
किंशुकेति । यद्विशेषे यद्विशेषः प्रयोजकः तत्सामान्ये तत्लामान्यप्र
न्यायलीलावतीप्रकाश विंवृतिः
स्येति । यथार्थत्वं न जातिरिति । सत्तामिन्नेति शेष: । एकैकपदविशेषपदाभ्यां विकल्पेनान्वये उपाधिद्वये तात्पर्यम्। परमाण्वादिसङ्ग्रहाय जातीयपदम् । ननु कारणत्वमात्रमेव साध्यमतो न बाधः साधर्म्यमपि तदेव इत्यरुचेराह ईश्वरत्वं चेति । दिक्कालाधिकरणकमिति । [१] अधिकरण
- ↑ एतत्प्रतीक द्वयदर्शनादत्र प्रकाशपठः कचिंद्रष्ट इति ध्ययेम् ।