भावनिश्चयार्थमुपादीयते । न च जानिरपि हेतुः, नस्याः स्वतोऽन्वयव्यतिरेकाभावात् व्यक्यूपानेनाऽन्यथामिद्धे । जातित्वं
न्यायलीलावतीकण्ठाभरणम्
ण जातीनामुपयोग इत्यर्थः । अन्वःव्यतिरेकाभावादिति । यद्यपि नान्वयव्यतिरेकगम्यं धर्मस्य करणत्वं कल्प्यते, तथापि यत्रान्वयव्यतिरेकगम्यं कारणत्वं तत्परमिति तर्हि । सामान्यादित्रयाणां नित्यसामान्यत्वमुपपादयितुमाह जातित्वञ्चति । पूर्वमनाशङ्कितमपि जातित्वं श-
न्यायलीलावतीप्रकाशः
स्यादित्यत आह न चेति । ज्ञानावच्छेदकत्वेन विषयस्य कारणत्वं न सियति तस्य ज्ञान एवोपक्षयादित्यर्थः । अदृष्टजनकत्वं श्रुत्येकगम्भ्यं, सा चासिद्धस्य त्र्कियमाणस्येष्टसाधनत्वं सिद्धस्य तु व्यापारभागित्वेन त थात्वं बोधयति, क्वचित्प्रसक्तस्य निवृत्ति तथात्वेन बोधयति जातिर्न स्वरूपतः कार्यानियत्वातु, नापि व्यापारभागितया जन्यधर्मानाश्रयत्वात्, न च जातेर्नित्यतया निवृत्तिरिति न तस्या अदृष्टजनकत्वमिति भावः । जातित्वं चति । यद्यपि जातित्वं न पूर्वे शङ्कितं किन्तु सत्तायाः सामान्यवृत्तित्वं, न च सामान्यत्वं जातिः स्यादित्यत्र शङ्कितेऽयं परीहारः, न च सामान्यत्वमित्यनेन पौनरु त्यप्रसङ्गात् । तथापि सत्तावत्वं सत्ताभिन्नजातिमत एवेति निय मात् सामान्यस्य सत्तावत्वं तदैव म्याद्यादे सत्ताभिन्न सामान्यवत्त्व
न्यायलीलावती प्रकाशविवृतिः
कारणतावच्छेदकत्वं तत्राप्यन्यथानियमनिरूपणानुपपत्तेरिति ध्येयम् । ज्ञानावच्छेदकत्वेनेति । यद्यपि भावनाविषयतावच्छेदकत्वं प्रागाशङ्कितं, तथापि ज्ञानावच्छेदकत्वमपि तस्यास्तीति तदप्युक्तम् । ननु विशिष्टकारणताग्राहकं प्रमार्ण विशेषणस्यापि कारणतां गृह्णातीत्यनुशयादाह अदृष्टजनकत्वमिति । जातेर्व्यक्तिपरिचयार्थमुपादानाम्न श्रुतिर्जातिविशिष्टस्य कारणतां बोधयतीति भावः । यथा सत्प्रत्ययः सत्तायां भ्रान्तस्तथा सत्तादिषु जातित्वप्रत्यय: स्यादिति न सत्ताविरोधिजातित्वजातिसिद्धिरित्येवं यद्यपि सुगमं मूलं, तथाप्यात्माश्रयभयेन सत्तानङ्गीकारेऽपि जातित्वाङ्गीकारो बाधकाभावेन स्या-