वेद्यताया अभावेऽपि सत्वान् । तस्य भावविरुद्धम्नभावत्वादनारोप इति चेत् । न । ममवायेऽप्यारोपपत्तेः । तस्य स्वतोऽपि भावत्वमिति चेन्न । स्वरूपस्याभावेऽपि तुल्यत्वात् [१] ।
सत्तासामान्यविरहस्योभयात्र) समत्वात् एतेनाभिधेयत्वादयो
निरस्ताः ।
ज्ञेयत्वं च न ज्ञाननम्वन्धः, तत्रैव तद्भभावान् नापि
न्यायलीलावतीकण्ठाभरणम्
यदि तदा अभावातिव्याप्तिरित्यत आह तस्येति । अभिषेयत्वादय इति मूलग्रन्थाभिप्रायस्तु धम्मंत्वधर्मित्वविशेषणत्वविशेष्यत्वादय इत्यादिपदग्राह्याः, अन पत्र बहुवचनोपपत्तिरपि, अन्यथा ज्ञेयत्वमात्रसङ्ग्रह बहुवचनं नोपपद्येन ज्ञेयत्वस्य स्वातन्त्र्यणैवाग्रे दूष्यत्वाच्चेति ।
तत्रैवेति । ज्ञेयत्वे ज्ञेयत्ववृत्तावात्माश्रयापत्तरित्यर्थः । यद्वा (तज्) ज्ञानएव तज्ज्ञानसम्बन्धाभावाज् ज्ञानान्तरसम्बन्धे चानवस्थेति भावः ।
न्यायलीलावतीप्रकाशः
मत्तया प्रतीयमानत्वमेव सत्त्वं सामान्यादावारोपरूपा तत्प्रतीतिरस्तीति नाव्याप्तिः, अभावे त्वारोपरूपापि सा नास्ति तस्य सद्विरुद्ध स्वभावत्वादिन्याह तस्येति । तथासति समवायेऽपि तदारोवो न स्यात् अभावस्येव तस्यापि सत्ताविरोधित्वादित्याह समवायेऽपीति । स्वरूप स्येति । स्वरूपातिरिक्तं भावत्वं दुर्वचमिति भावः । एतेनेति । अभावस्थाव्यभिधेयादित्वेन षण्णामेव तत्साधर्म्यमित्यनुपपन्नमित्यर्थः । यद्यपि मूलग्रन्थे ज्ञेयत्वमात्रस्यादिपदग्राह्यत्वाद्वहुवचनग्राह्यं नास्ति, तथापि तत्रानुक्तस्याप्येवंविधसाधर्म्यस्य बहुवचनेनोपसङ्ग्रहः ।
तत्रैवेति । ज्ञान एव ज्ञानसम्बन्वाभावात्तस्य भेदाधिष्ठानत्वादि-
न्यायलीलावतीप्रकाश विवृतिः
देरभावत्वापत्तिरित्यर्थः । यद्यपि मूलमन्थे इति । षण्णा मस्तित्वांभिधेयत्वज्ञयत्वानीति भाष्यप्रन्थस्य ज्ञेयत्वमात्रस्यात्रादिपदग्राह्यत्वेन तृती याभावादभिधेयत्वादय इति बहुवचनं विरुद्धमिति शङ्कार्थः ।
- ↑ सत्त्वात् -- प्रा पु० पाटः।