अन्ये न्वीश्वरममाणत्वमङ्ग्रहार्थं कारकाकारकमाधारणं तदयोगव्यवच्छेदं निमित्तम ङ्गीकुर्वत अनाद्यवाध्यममाण शब्दवाच्यता तृपेक्षणीया । प्रमिते [१] रपि तत्प्रवेशापत्ते: । आयाममाने
न्यायलीलावतंकण्ठाभरणम्
मासवेमाचार्य्यसम्मतेत्याह (?) । अन्येत्विति प्रामैनेरपीति प्रभाणभावव्युत्पत्तिमाश्रित्येति भावः । आयमेति । प्रादेशद्वयमित्यस्य प्रमाणं परिकलितं 'प्रमाणे द्वयसाजन्यादौ परिमाणेऽपि तत्पद्प्रयोगीदत्यर्थः ।
न्यायलीलावतीप्रकाश:
अन्ये त्विति । यद्यध्येतदिन्द्रियादावपि नास्ति उत्पत्तिकाले प्रमितेरयागादित्यव्याप्तिरीश्वरप्रमापरम्परालम्बन्धः कालादावपीत्यतिव्यातिश्च तथापि स्वात्यन्नाभावासमानाधिकरणो यः प्रमितः स्वकार णेन सम्बन्धः तद्वत्वमेव करणत्वम्, अस्मदाद्यात्मना स्वकारणेन यः प्रमितेः : समवायसम्बन्धः स एवेश्वरणापीति तस्यापि प्रमाणत्वम्, कालादौ च स नास्तीति नातिव्याप्तिः । इन्द्रियादिपु तु स्वात्यन्ताभावसामानाधिकरण्यप्रमिति सम्बन्धव्यतिरेकात् । प्रमितेरपीति । भावव्युत्पन्न [२] प्रमाणपदवाच्यत्वस्यापि तत्र सत्त्वादित्यर्थः । आयामेति । "प्र-
न्यायलीलावती प्रकाशविकृतिः
चित्तु शब्दनाशक एव शब्द: पूर्वशब्दध्वंससाक्षात्कारव्यापारः तस्य ध्वंसद्वारा जनकत्वसम्भवादित्याहुः । तदयुक्तम् । तस्य ध्वंसेनान्यथासिद्धतया तत्साक्षात्कारजनकत्वे मानाभावादन्यथा मुद्ररपातादेरपि घटध्वंसप्रत्यक्षजनकतापत्तेरिति । वस्तुतः कर्णशकुली संयोगः श्रोत्रमनःसंयोगो वा सर्वत्र श्रोत्रजव्यापार इति रहस्यम् ।
परम्परासम्बन्ध इत्युपलक्षणम्, विषयविषयिभावोऽपि द्रष्टव्यः । तथापीति । अत्राद्यं स्वपदं सम्वन्धपरं द्वितीय प्रमापरं, तेनन्द्रियादौ सम्बन्धान्तरावच्छिन्न प्रमात्यन्ताभावमादाय नातिव्याप्तिः । स एवेति । समवायस्यै कत्वादिति भावः कालादौ च यद्यपि कारणत्वं समवायश्च काले वर्त्तत एत्र तथापि विशिष्टस्तत्र नास्ति तत्र तदत्यन्ताभावस्थापि विद्यमानत्वादित्याशय: । इन्द्रियादिष्विति । तत्र कारणतालक्षणसम्ब-